SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 15 मुक्ता] आचारलक्षणा। .. दन्तस्नायवस्थिविषाणादिभित्रसजीवसम्बन्धिभिर्भवति । शस्त्रमप्यस्य स्खकायपरकायोभयद्रव्यभावभेदभिन्नमनेकप्रकारम् । शेषद्वाराणि पृथिवीवत् । अष्टविधयोनिभाज इति, अण्डपोतजरायुरससंस्खेदसम्मूर्च्छनोद्भिदुपपातजभेदेनाष्टविधं जन्म त्रसानाम् , तत्राण्डजाः पक्ष्यादयः, पोतजा हस्त्यादयः, जरायुजा गोमनुष्यादयः, रसजास्तकादौ पायुकृम्याकृतयोऽतिसूक्ष्मजीवाः, संखेदजा मत्कुणादयः, सम्मू छैनजाः शलभपिपीलिकादयः, उद्भिज्जाः पतङ्गखञ्जरीटादयः, उपपातजा देवा नारकाच, प्रसाः सर्वे 6 . एतेष्वेवाष्टविधेषु जन्मसु निपतन्ति, एते त्रसाः सर्वजनप्रत्यक्षसमधिगम्यापैकालिकाश्च । अर्चामश्र- . साधनाजिनमांसशोणितपित्तवसापिच्छापुच्छवालाद्यर्थमातुरा हिताहितप्राप्तिपरिहारशून्यमनस एतान् हिंसन्ति, अतस्त्रासपरिगतमनस एत इति विज्ञाय प्रत्याख्यानपरिज्ञया संवृतो सदाऽनगारगुणान् रक्षेत् ये तु परित्यक्तानगारगुणा विषयप्रवृत्तास्ते न जीवानपेक्षन्ते रागद्वेषकलुषितलोचनत्वात् , अतस्ते नारकादिचतुर्विधगत्यन्तःपातिनः । तदेवं षड्जीवनिकायशस्त्रं करणैर्योगैर्न समारभेत, अन्यथा प्राणाति- 10 पातमृषावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभप्रेमद्वेषकलहाभ्याख्यानपैशुन्यपरपरिवादरत्यरतिमायामृषामिथ्यादर्शनशल्यरूपाष्टादशविधपापभाक् स्यादिति भावः ॥ १७ ॥ ___ तदेवं सामान्यतो विशेषतश्च जीवास्तित्वं प्रसाध्य बन्धं विरतिञ्च वर्णयित्वा तच्छ्रद्दधानस्य तद्रक्षापरिणामिनोऽधिगतमहाव्रतस्य मुनेश्चारित्राङ्गं रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयं वक्तुमुपक्रमते औदयिकभावलोक औपशमिकादिभावलोकेन विजेयः ॥ १८॥ .. औदयिकेति, लोको हि पञ्चास्तिकायात्मकः, स च नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदैरष्टभिर्निक्षिप्यते, तत्र नामस्थापने सुप्रसिद्धे, द्रव्यलोको जीवाजीवरूपः, क्षेत्रलोक आकाशमात्रम्, काललोकः समयावलिकादिः, भवलोको नारकादिः, स्वस्मिन् स्वस्मिन् भवे वर्तमानो यथा मनुष्यलोको देवलोक इत्यादि । भावलोकस्तु औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्नि- 20 पातिकरूपः, पर्यायलोको द्रव्याणां पर्यायमात्ररूपः, अत्र त्वौदायिकभावलोको ग्राह्य इत्येतत्सूचनायैव औदयिकमावलोक इत्युक्तम्, तन्मूलो हि संसारोऽतस्तद्विजयः कर्त्तव्यः, विजयश्च नामस्थापनाद्रव्यक्षेत्रकालभावभेदैषभिर्निक्षेप्यः, तत्र नामस्थापने प्रसिद्धे, व्यतिरिक्तद्रव्यविजयो द्रव्येण द्रव्यात् द्रव्ये वा विजयो यथा कटुतिक्तकषायादिना श्लेष्मादेनृपतिमल्लादेर्वा, क्षेत्रविजयः षड्भरतखण्डादेः, यस्मिन् क्षेत्रे विजयः प्ररूप्यते स वा, कालविजयः कालेन विजयो यथा षष्टिभिर्वर्षसहस्रैर्भरतेन भारतं जितम्, 20 कालस्य प्राधान्यात्, यस्मिन् वा काले विजयो व्याख्यायते सः । भावविजयः औदयिकादेर्भावस्य भावान्तरेणौपशमिकादिना विजयः, अत्र चानेनैवाधिकारः, एवश्चौदयिकभावपदेन तथाविधकषायो प्रायः, औदायिकभावकषायलोकस्यौपशमिकादिभावलोकेन विजयः कर्त्तव्यः, तथाविधलोकस्य संसारकारणत्वेन तजये झटिति तस्मान्मुच्यत इति भावः ॥ १८॥ ननु विजितकषायलोकत्वात्त्वरया संसारान्मुच्यत इत्युक्तं तत्र कोऽसौ. संसारः किं वा ३० तत्कारणमित्यत्राह संसारकषायकामानां मोहनीयं मूलम् ॥ १९॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy