SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थ मुक्तावल्याम् [द्वितीया वर्तेतेति, सर्वस्मादारम्भात् करणत्रयैरुपरमेत्, स चोपरमभाक् य आर्हतप्रवचने निरतो नान्यत्र, तथा च शाक्यादयो यथाप्रतिज्ञं निरवद्यानुष्ठायित्वाभावान्नोपरतव्यपदेशभाजः । प्रव्रज्याप्रतिपत्त्युत्तरकालमपि ज्ञानक्रियोक्तेनिःशङ्कितत्वसुदृढश्रद्धावत्त्वमपि भवेदिति सूचितम् , यादृशेन ज्ञानेन श्रद्धया च प्रव्रज्यां प्रपन्नः तां तथैव संरक्षेत्, न तु शाक्यादिदर्शनवैभवादिना जैनेन्द्र शासने शङ्कितो भवेत् , 5 देशसर्वभेदेन हि द्विविधा शङ्का, किमस्त्याहतो मार्गो न वेति सर्वशङ्का, पृथिवीकायादयो जीवा विद्यन्ते न वेति देशशङ्का, उभयविधाऽपीयं शङ्काऽनर्थकारिणी, तस्मान्मौनीन्द्रवचनेन पृथिवीकायादिजीवान् विज्ञाय सश्रद्धो यावजीवं समारम्भनिवृत्तो भवेत् , यतः प्रव्रज्याप्रतिपत्तिकाले प्रायः प्रवृद्धपरिणामित्वेऽपि संयमश्रेणिं प्राप्तो वर्द्धमानपरिणामो हीयमानपरिणामोऽवस्थितपरिणामो वा भवेत् , तत्र वृद्धि कालो हानिकालो वा समयो जघन्यत उत्कर्षणान्तमौहूर्तिकः, अवस्थितिकालश्च द्वयोवृद्धिहानिलक्षण10 योर्यवमध्यवज्रमध्ययोरष्टौ समयाः, तत ऊर्ध्वमवश्यं पातात् , तस्मात्प्रव्रज्याप्राप्त्युत्तरकालं श्रुतसागर मवगाहमानः संवेगवैराग्यभावनाभावितान्तरात्मा प्रवर्द्धमानपरिणाम एव भवेत् , शङ्कामवधूय निखिलाननगारगुणान् परिरक्षेदिति भावः ॥ १६ ॥ .. अथ पृथिवीजलवह्निवायुवनस्पतिकायनिरूपणोत्तरं क्रमप्रसिद्धं त्रसकायस्वरूपमाह. एवं त्रसानष्टविधयोनिभाजो विचिन्त्य परिपालयेत् ॥ १७ ॥ 15 एवमिति, पूर्वमभिहितद्वारैरित्यर्थः, तत्र तावत्-त्रसन्ति उष्णाद्यभितप्ताः सन्तोऽभिलषितस्थानादुद्विजन्ते गच्छन्ति च छायाद्यासेवनार्थं स्थानान्तरमिति त्रसाः, अनया च व्युत्पत्त्या त्रस नामकर्मोदयवर्तिन एव तसा भवन्ति, वसन्त्यभिसन्धिपूर्वकमनभिसन्धिपूर्वकं वा ऊर्ध्वमधस्तिर्यक्षु • चलन्तीति त्रसाः, तेजोवायू द्वीन्द्रियादयश्च । प्ररूपणा-लब्धिगतित्रसभेदेनासौ द्विविधः, तेजो. . वायू लब्ध्या त्रसौ तौ नेह विवक्षितौ, तयोः पूर्वं निरूपितत्वात् , मतित्रसाश्च नारकतियामनुष्या20 मरभेदेन चतुर्विधाः, प्रत्येकं पर्याप्तापर्याप्तभेदभाजो नामकर्मोदयप्रभावेणासादितगतयः, सर्वे जीवा मिलित्वा चतुरशीतिलक्षयोनिकाः । सर्वेषां जीवानान्त्वेका कोटीकोटी सप्तनवतिश्च शतसहस्राणि पश्चाशत्सहस्राणि कुलकोटीनां परिमाणं भवतीति । लक्षणं-दर्शनज्ञानचारित्राणि देशविरतिर्लब्धिदशकं साकारानाकारोपयोगो योगोऽध्यवसायः पृथग्लब्ध्युदयः कर्माष्टकोदय इत्येवमादयः । परिमाणञ्च क्षेत्रतः संवर्तितलोकप्रतरासंख्येयभागवर्तिप्रदेशराशिपरिमाणास्त्रसकायपर्याप्तकाः एते च 25 बादरतेजस्कायपर्याप्तकेभ्योऽसंख्येयगुणाः, त्रसकायपर्याप्तकेभ्यस्त्रसकायिकापर्याप्ता असंख्येयगुणाः, कालतः प्रत्युत्पन्नत्रसकायिकाः सागरोपमलक्षपृथक्त्वसमवराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि • सागरोपमलक्षपृथक्त्वपरिमाणा एव, उद्वर्त्तनमुपपातश्च जघन्येनैको द्वौ त्रयो वा, उत्कृष्टतस्तु प्रतरस्यासंख्येयभागप्रदेशपरिमाण एव । त्रसेषु सतवमुत्पत्तिनिष्क्रमो वा जीवानां जघन्येनैकं समयं द्वौ श्रीन् वेत्यादि, उत्कर्षेणावलिकासंख्येयभागमानं कालं सततमेव निष्क्रमः प्रवेशो वा । एकजीवा४० पेक्षया तु-एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहूर्त्तमासित्वा पुनः पृथिव्यायेकेन्द्रियेषूत्पद्यते, प्रकर्षे माधिकं सागरोपमसहस्रद्वयं सततं त्रसभावेनावतिष्ठत इति । उपभोगो मांसचर्मकेशरोमनखपिच्छ
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy