SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अथ आचारमुक्तासरिका . 10 तदेवमवसितेऽनुयोगनिरूपणे सम्प्रति चरणकरणानुयोगं वक्तुकामेनाऽऽचारानुयोगः प्रारभ्यते अथाऽऽचारसारानुयोगः॥१॥ अथेति, सामान्यतोऽनुयोगनिरूपणोत्तरकालमित्यर्थः । यद्यप्यनुयोगश्चतुर्विधो भवति धर्मकथागणितद्रव्यचरणकरणानुयोगभेदात् तथापि चरणकरणानुयोगभूतस्याऽऽचारादेरनुयोगः क्रियते प्रधान-5 त्वात् , इतरेषां तदर्थत्वात् । आचारेति, आ मर्यादया कालादिनियमादिलक्षणया चारश्चरणमाचारो मोक्षार्थमनुष्ठानविशेषः, तत्प्रतिपादकग्रन्थोऽप्याचारः, आचार इति ग्रन्थस्य विशेषनाम, तस्य सारतया . प्रभूतार्थसङ्ग्रहरूपतयाऽनुयोगो व्याख्यानं क्रियत इति शेषः, अशेषविशेषाविरोधेन सामान्यरूपतया व्यावर्णने कृते सुकोमलमतीनां तत्रानायसतः प्रवेशः सम्पद्यत इति भावः । अनेन च सूत्रेण व्याचिख्यासितशास्त्रस्य समीपानयनरूपोपक्रमः कृतो भवतीति ॥ १॥ ___ अथ तस्य निक्षेपं सूचयन्नाहएकार्थप्रवर्तनप्रथमाङ्गत्वगणिपरिमाणसमवतारसारैर्भावाचारस्य विशेषः॥२॥ एकार्थेति, एकार्थाः पर्यायशब्दाः, यथाऽचाराऽऽगालाऽऽकराऽऽश्वासाऽऽदक्षिाऽऽचीर्णाssजात्यामोक्षा भावाचारस्य । भावाचारस्येत्यनेन नामस्थापनाद्रव्याचाराणामेते न पर्याया इत्युक्तं भवति, तथाहि आचारस्य नामस्थापनाद्रव्यभावभेदतश्चतुर्धा निक्षेपो भवति, नामाचारस्थापनाचारौ प्रसिद्धौ 15 तथा शरीरभव्यशरीरलक्षणद्रव्याचारभेदोऽपि । उभयव्यतिरिक्तस्तु द्रव्याचारो नामनधावनवासनशिक्षापणसुकरणाविरोधीनि यानि लोके द्रव्याणि तद्रूपः । नामनं झवनतिकरणं तत्प्रति च द्रव्यं द्विविधं भवति, आचारवदनाचारवञ्च, तिनिशलतादिकं ह्याचरितभावं तेन रूपेण परिणमति न त्वेरण्डाविद्रव्यम् , हरिद्रारक्तं वसं धावनं प्रत्याचारवत्, सुखेन प्रक्षालनात्, कृमिरक्तरागमनाचारवत्, वमनोऽपि रागानपगमात् । वासनं प्रति कवेलुकाद्याचारवत् सुखेन पाटलकुसुमादिभिर्वास्थमान- 20 त्वात्, वैडूर्याचनाचारवत् अशक्यत्वात् । शिक्षा प्रति शुकसारिकाद्याचारवत्, सुखेन मानुषमाषाविसम्पादनात्, शकुन्ताधनाचारवत् । सुकरणं प्रति सुवर्णाविकमाचारवत् सुखेन तस्य कटकाविकरणात्, अनाचारवद्धटलोहादिकम् । अविरोधं प्रत्याचारवन्ति गुडध्यादीनि, रसोत्कर्षापमोगगुणत्वाच, विपर्ययादनाचारवन्ति तैलक्षीरादीनि । पाखण्डिकादिकर्तृकपञ्चरात्रायाचारो लौकिको भावाचारः, अलौकिकस्तु स ज्ञानदर्शनचारित्रतपोवीर्याचारभेदात् पञ्चविधः, तत्र ज्ञानाचारोऽपि 25 कालविनयबहुमानोपधानानिहवन्यजनार्यतदुभयभेदतोऽष्टविधा, निःशहितत्वं निष्कांक्षितत्वं निर्वि- . चिकित्सवाऽमूढदृष्टित्वमुपहः स्थिरीकरणं कात्सल्यं प्रभावना चेत्यष्टविधो दर्शनाचारः । तिम्रो गुप्तयः पन्न समितयश्चेति चरणाचारोऽष्टधा, द्वादशधा तपआचारः, वीर्याचारस्त्वनेकधा, इत्येवं पञ्चविधा
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy