SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सूत्रानुकावस्या [प्रथमा संख्येयत्वेऽपि सकलनयसाहिभिर्नयैर्विचारो विधीयत इति वाच्यम् , सङ्घाहिनयानामप्यनेकविधत्वात् , तथाहि पूर्वविद्भिः सप्तनयशतानि सकलनयसङ्ग्राहीण्युक्तानि यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीत्, तेषां सवाहकाः पुनरपि द्वादशनयाः यत्प्ररूपकमिदानीमपि द्वादशारं नयचक्रमस्ति, एतत्स ब्राहिणोऽपि सप्त नैगमादिनयाः, तत्सङ्घाहिणौ द्रव्यपर्यायास्तिको नयौ ज्ञानक्रियानयो का निश्चयव्यव6 हारौ वा शब्दार्थनयो वेति संग्राहकनयानामप्यनेकविधत्वात् पर्यनुयोगतादवस्थ्यमित्याशङ्कायामाह ज्ञानक्रियोभयसाध्या मुक्तिरिति ॥ ५२ ॥ ज्ञानेति, ज्ञानक्रियोभयसाध्यैव मुक्तिर्न पुनरेकेन केनचित्साध्या, साधकोऽपि ज्ञानक्रियाभ्यां द्वाभ्यामपि युक्तः साधुरेवेति स्थितपक्षः, न हि ज्ञानमात्रात् पुरुषार्थसिद्धिः क्वापि दृष्टा, पाकार्थिनामपि दहनपरिज्ञानमात्रादेव न हि पाकसिद्धिः किन्तु दहनानयनसंधुक्षणज्वालनादिक्रियानुष्ठानादपि, न च 10 तीर्थकरोऽपि केवलज्ञानमात्रान्मुक्तिं साधयति किन्तु यथाख्यातचारित्रक्रियातोऽपि, क्रियाकालेऽपि ज्ञानावश्यम्भावितया तदनन्तरभावित्वलक्षणसाधकस्योभयत्र तुल्यतया न क्रियामात्रात् पुरुषार्थसिद्धिः प्रत्येकं च तयोर्देशोपकारित्वेन समुदाये संपूर्णा हेतुताऽस्तीति न काचित् क्षतिः । प्रकरणान्ते मङ्गलसूचनाय मुक्तिशब्दः, इतिशब्दश्वानुयोगद्वारशास्त्रसारस्य समाप्तिसूचकः, उपक्रमादिद्वारचतुष्टयस्य निरूपणादिति संक्षेपः ॥ ५२ ॥ अनुयोगसार एषः प्रदर्शितो बालमतितुष्ट्यै। प्रौढधियामप्यमाल्लाभश्चेद्यन्तु तं तेऽपि ॥ इति श्रीतपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितायां सूत्रार्थमुक्तावल्यामनुयोग लक्षणा प्रथमा मुक्तासरिका वृत्ता।
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy