SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ૨૮ सूत्रार्थमुक्तावस्याम् [ प्रथमा ङ्गात् । ततो द्वितीयाङ्कस्यैकस्य ज्येष्ठाभावात्तृतीयाङ्कस्य त्रिकस्य ज्येष्ठो द्विकस्तदधो निक्षिप्यते, अत्र चाग्रभागस्य तावदसम्भव एव पदत्रयाश्रयेण भङ्गकरणात् तस्मात्पृष्ठतः स्थापितशेषावेककत्रिकौ क्रमतो निक्षिप्येते पूर्वक्रमेण, तथा च १३२ भङ्गोऽयं जातः, अत्रापि एककस्य ज्येष्ठो नास्ति, त्रिकस्यास्ति द्विकः परं न स्थाप्यते, अग्रेसदृशाङ्कपातेन व्यवस्थाभेदप्रसङ्गादतोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, तत उपरितनाÏ ङ्कतुल्यो द्विकः, पृष्ठतः स्थापित शेषस्त्रिको दीयत इति ३२१ चतुर्थो भङ्गो जातः, एवमेव २३१,३२१ पश्चमषष्ठभङ्गावपि भाव्यौ, भङ्गेष्वेषु षट्सु प्रथमः पूर्वानुपूर्वी चरमः पञ्चानुपूर्वी मध्यमाञ्चत्वारोऽनानुपूर्व्य इति भाव्यम् इति द्रव्यानुपूर्वी ।। ३५ ।। द्रव्यानुपूर्वीव्याख्यां क्षेत्रकालानुपूर्व्योरप्यतिदिशति — एवमेव क्षेत्रकालानुपूर्व्यां ॥ ३६ ॥ " एवमेवेति, द्रव्यानुपूर्वीव्याख्यावदेवेत्यर्थः तथा च क्षेत्रानुपूर्व्यप्योपनिधिक्यनौपनिधिकीभेदाद्द्ङ्किविधा, अनौपनिधिकी चार्थपदप्ररूपणतादिभिः पञ्चधा भवति, ज्यादिक्षेत्रप्रदेशावगाहपर्यायविशिष्टत्र्यणुकादिद्रव्यस्कन्धः क्षेत्रानुपूर्वी, असंख्यातप्रदेशावगाहनाविशिष्टश्चासं ख्याताणुकस्कन्धोऽनन्ताणुको वा द्रव्यस्कन्धो भवति, एकप्रदेश वगाढः परमाणुसंघातः स्कन्धसंघातश्च क्षेत्रतोऽनानुपूर्वी, प्रदेशद्वयावगाढो द्विप्रदेशिकादिस्कन्धः क्षेत्रतोऽवक्तव्यकम् । बहुवचननिर्देश भङ्गसमुत्कीर्त्तनतादिविचारः पूर्ववत् । अनु15 गमे च सत्पदप्ररूपणाद्वारमपि पूर्ववत्, द्रव्यप्रमाणद्वारे - आनुपूर्वीद्रव्याण्यसंख्यातानि त्र्यादिप्रदेशावगाढद्रव्यस्यैव क्षेत्रत आनुपूर्वीत्वेनासंख्यातप्रदेशात्मके लोके त्र्यादिप्रदेशविभागानामसंख्यातत्वात्, तुल्यप्रदेशावगाढानां बहूनामपि क्षेत्रावगाहा पेक्षयैकत्वात् । एवमनानुपूर्वीद्रव्याण्यप्यसंख्येयानि, लोके प्रदेशानामसंख्यातत्वात्, अवक्तव्यकद्रव्याण्यपि तथा, द्विप्रदेशात्मकविभागानामप्यसंख्यातत्वात् । क्षेत्रद्वारे स्कन्धद्रव्याणां विचित्रत्वादेकद्रव्यापेक्षया कश्चित्स्कन्धो लोकस्य संख्येयं भागमवगाह्य तिष्ठति 20 कश्चिदसंख्येयमन्यः संख्येयानपरोऽसंख्येयान् कश्चित्तु देशोनलोकव्यापी च, क्षेत्रत आनुपूर्व्यास्सकललोकव्यापित्वेऽनानुपूर्व्यवक्तव्यकद्रव्याणां निरवकाशत्वप्रसङ्गः, न चेष्टापत्तिः, लोकस्य सदाऽऽनुपूर्व्यनानुपूर्व्य वक्तव्यकद्रव्यैर शून्यत्वस्य शास्त्रानुमतत्वादतो देशोनेति । द्रव्यानुपूर्व्यां द्रव्याणामेवानुपूर्व्यादिभाक्त्वेन द्रव्याणाञ्च परस्परं भिन्नानामपि एकत्रापि क्षेत्रेऽवस्थानसम्भवान्न सर्वलोकव्यापित्वं तस्य विरुध्यते, नानाद्रव्यापेक्षया सर्वलोकव्यापित्वमानुपूर्व्यादिद्रव्याणां त्र्यादिप्रदेशावगाढद्रव्यभेदतोऽत्रा25 नुपूर्वीणां नानात्वम् । एकद्रव्यापेक्षयाऽनानुपूर्वीद्रव्यं लोकस्यासंख्येयभागवन्यैव, एकप्रदेशावगाढस्यैवानुपूर्वीत्वात् । नानाद्रव्यापेक्षया समस्तलोकव्यापित्वम्, एवमवक्तव्यकद्रव्यमपि । स्पर्शनाद्वारमप्येवमेव, कालद्वारे - त्र्यादिप्रदेशावगाढद्रव्यरूपाऽऽनुपूर्वी एकद्रव्यापेक्षया जघन्येनैकस्समय उत्कर्षेणासंख्येयः कालः तिष्ठति, नानाद्रव्यापेक्षया तु सर्वकालमेव भवति । त्र्यादिप्रदेशावगाढद्रव्यभेदानां सर्वदा सद्भावात् एवमनानुपूर्व्यवक्तव्यकद्रव्येष्वपि भाव्यम् । अन्तरद्वारे - एकद्रव्यापेक्षयाऽऽनु30 पूर्वीद्रव्यं किमपि यदा समयमेकं विवक्षितक्षेत्रादन्यत्रावगाहं प्रतिपद्य पुनरपि केवलमन्य द्रव्यसंयुक्तं वा तेष्वेन विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदैकानुपूर्वीद्रव्यस्य समयो जघन्योऽन्तरकालः प्राप्यते । तदेव यदाऽन्येषु क्षेत्रेष्वसंख्येयं कालं परिभ्रम्य केवलमन्यद्रव्यसंयुक्तं मा समागत्य पुनरपि तेष्वेव 10
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy