________________
मुक्ता]
सूमकतकक्षणा। ।
अपरोऽधर्मकर्मवृत्तिर्मेषादीनामूर्णया तन्मांसादिना वाऽऽत्मानं वर्तयामीति तद्भावमापनो मेषमन्यं वा वसं प्राणिनं स्वमांसपुष्ट्यर्थ हननादि करोति तत्कौरभ्रिकम् । योऽपि सौकरिकश्वपचचाण्डालादि: सूकरादीन् स्वपरप्रयोजनाय हननादि कुर्यात् तत्कर्म सौकरिकम् । कश्चित्क्षुद्रसत्त्वो लुब्धकत्वं प्रतिपय वागुरया हरिणादिकं स्वजनाद्यर्थ व्यापादयति तत्कर्म वागुरिकम् । अधमोपायजीवी कश्चिच्छकुन्यादिमांसाद्यर्थ तस्य हननादिक्रियामारचयति तत्कर्म शाकुनिकम् । अधमाऽधमः कश्चिम्मात्स्यिकभावमापनो. मत्स्यमन्यं वा जलचरं हन्यात्तत्कर्म मात्स्यिकम् । गोघातकभावमासादितः कोऽपि कुपितः सन् गोहननादि करोति कर्मेदं गोघातकम् । यो गोपालकभावं प्रपन्नोऽन्यां गां कुपितो हन्यात्तत्कर्म गोपालकम् । कश्चिजघन्यकर्मकारी सारमेयपापर्द्धिभावमवाप्य तमेव श्वानं तेन वा मृगादित्रसं व्यापादयेत्तत्कर्म शौवनिकम् । कश्चिञ्च दुष्टसारमेयपरिग्रहं प्रतिपद्य मनुष्यं वा कञ्चन पथिकमभ्यागतमन्यं वा मृगसूकरादिवसं हननादि विरचयेत्तदिदं कर्म शौवनिकान्तिकमिति । एभिः क्रूरकर्मभिरात्मानं वर्तयन्नधर्मपक्ष-10 पात्यनन्तसंसारं दुःसहान् क्लेशाननुभवतीत्यनार्यमिदमधर्मस्थानम् ॥ ६२ ॥
अथ द्वितीयं धर्मोपादानभूतं पक्षमाहअनारम्भिणो यतय उपविहारिण एकचर्याश्च धर्मिणः ॥ १३ ॥
अनारम्भिण इति, ये सर्वसावयेभ्यः सर्वथा विरता धर्मेणैवात्मनो वृत्तिं परिकल्पयन्ति तथा सुशीलाः सुव्रता यतयः समिता गुप्ताः सर्वगात्रपरिकर्मविप्रमुक्ता उपविहारिणः प्रव्रज्यापर्याय-16 मनुपाल्यावाधारूपे रोगातके समुत्पन्नेऽनुस्पन्ने वा भक्तप्रत्याख्यानं विदधति, किंबहुनोक्तेन यत्कृतेऽयमयोगोलकवनिराखादः करवालधारामार्गबहुरध्यवसाय: श्रमणभावोऽनुपाल्यते सम्यग्दर्शनज्ञानचारित्राख्यं तमर्थमनुपाल्याव्याहतमेकमनन्तं मोक्षकारणं केवलज्ञानमानुवन्ति तदूर्ध्व सर्वदुःखविमोक्षलक्षणं मोक्षमवाप्नुवन्ति, एके चैकचर्या एकेन शरीरेणैकस्माद्वा भवात् सिद्धिगतिं गन्तारो भवन्ति, अपरे तथाविधपूर्वकर्मावशेषे सति तत्कर्मवशगाः कालं कृत्वाऽन्यतमेषु वैमानिकेषु देवेषूत्पद्यन्ते, तत्रा-20 पीन्द्रसामानिकत्रायविंशलोकपालपार्षदात्मरक्षप्रकीर्णेषु नानाविधसमृद्धिषु भवन्ति न त्वाभियोगिककिल्बिषिकादिषु । आगामिनि च काले शोभनमनुष्यभवसम्पदुपेताः सद्धर्मप्रतिपत्तारश्च भवन्ति । तदेतत्स्थानमेकान्ततस्सम्यग्भूतमार्य सुसाध्विति धर्मस्थानम् ॥ ६३ ॥
अथ धर्मभूयिष्ठं मिश्रपक्षमाचष्टेस्थूलपरिग्रहनिवृत्तास्तत्त्वज्ञाः श्रमणोपासका मिश्राः ॥ ६४ ॥
स्थूलेति, एते धर्माधर्माभ्यामुपेता अपि गुणभूयिष्ठे पतितस्य दोषस्य गौणत्वाद्धार्मिकपक्षेऽवतरन्ति, एते हि शुभकर्माणो धार्मिकवृत्तयः सूक्ष्मपरिप्रहारम्भादितोऽनिवृत्ताः स्थूलाब संकल्पकृतानिवृत्ता नरकादिगमनहेतुभ्यः सावयेभ्यो यंत्रपीडननिर्लाञ्छनकृषीवलादेर्निवृत्ताः क्रयविक्रयादेरनिवृत्ताः श्रमणोपासनतोऽधिगतजीवाजीवखभावा अवगतपुण्यपापाः परिक्षातबन्धमोक्षस्वरूपा धर्मादच्युता मेरुरिव निष्पकम्पाः सुदृढमाईते दर्शनेऽनुरक्ताः, मौनीन्द्रदर्शनावाप्तौ सत्यां परितुष्टमानसाः सदोद्घाटित-90 गृहद्वारा अनवरतं श्रमणानुयुक्तविहारिणो निर्मथान् प्रासुकेनैषणीयेनाशनादिना पीठपलकशच्यासंस्तार
सू. मु. १८