________________
१३६
सूत्रार्थमुक्तावल्याम्
[तृतीया भावाच्च, ते प.खायुषः क्षये कालं कृत्वा विकृष्टतपसोऽपि सन्तोऽन्यतरेष्वासुरिकेषु किल्बिषिकेषूपस्यन्ते पुनर्मूकभावनोत्पद्यन्ते, जातिमूका वा भवन्ति, अत एते लोभप्रत्ययिककर्मभाजो भवन्ति । एतानि द्वादशक्रियास्थानानि मिथ्यादर्शनाश्रितानि संसारकारणानीति कृत्वा सम्यग्यथावस्थितवस्तुस्वरूपनिरूपणतो ज्ञपरिज्ञया विज्ञाय साधुः प्रत्याख्यानपरिज्ञया परिहरेत् । यस्य प्रवचने संयमे वा स्थितस्यात्म5 भावार्थ मनोवाकायैः संवृतस्य पञ्चसमितिभिः समितस्य त्रिगुप्तिभिर्गुप्तस्य नवब्रह्मचर्यगुप्युपेतब्रह्म
चारिणः सोपयोगं गतिस्थितिनिषीदनत्वग्वर्तनादिकं कुर्वाणस्य सोपयोगमेव सर्वाः क्रिया: पतगृहप्रहणादिका विधानस्य सूक्ष्माक्षिपक्ष्मसंचलनरूपादिका येर्यापथिका नाम क्रिया भवति या केवलिनापि क्रियते योगवतो जीवस्य क्षणमात्रमपि निश्चलत्वासम्भवात् , तया च यत्कर्म तदीर्यापथिकम् ,
अकषायिणस्तक्रियया हि यत्कर्म बद्ध्यते तत्प्रथमसमय एव बद्धं स्पृष्टश्च, कषायाभावेन साम्परायिक10 स्येव स्थित्यभावात् , द्वितीयसमयेऽनुभूयते तृतीयसमये च निर्जीर्यते, तच्च कर्म प्रकृतितः सातवेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावमनुत्तरोपपातिकदेवसुखातिशायि प्रदेशतो. बहुप्रदेशमस्थिरबन्धं बहुव्ययश्च । आगामिनि तृतीयसमये तत्कर्मापेक्षयाऽकर्मतापि, एवं तावद्वीतरागस्येोप्रत्ययिकं कर्म सम्बध्यते । तदन्ये प्राणिनः साम्परायिकबन्धभाजो द्वादशक्रियास्थानेषु वर्त्तन्ते । एवं विचित्रक्षयोपशमान्नानाप्रज्ञा निजानेकविधाभिप्रायात् पापश्रुताध्ययनं परलोकनिष्पिपासवो विषयतृषिता 15 इहलोकमात्रप्रतिबद्धाः कुर्वन्ति, ताश्च विद्या उत्पातस्वप्नान्तरिक्षाङ्गखरलक्षणमंत्रेन्द्रजालपाकशासनधनु
वेदायुर्वेदज्योतिषादयः, एता अधीयाना क्षेत्रभाषार्या अपि मिथ्यात्वोपहतबुद्धयोऽनार्यकर्मकारित्वादनार्याः स्वायुषः क्षये कालं कृत्वाऽऽसुरीयकेषु किल्बिषिकादिषूत्पन्नाः कर्मशेषतया पुनरेडमूकत्वेनाव्यक्तभाषिणस्तमस्त्वेनान्धतया मूकतया वा प्रत्यागच्छन्ति ॥ ६१ ॥
अपराणि चतुर्दशासदनुष्ठानानि प्रकाशयति80 अनुगामुकोपचरकप्रातिपथिकसन्धिच्छेदकग्रन्थिच्छेदकौरभ्रिकसौकरिकवायुरिकशाकुनिकमात्स्यिकगोघातकगोपालकशौवनिकशोवनिकान्तिकानि पापस्थानानि ॥ ६२॥
अनुगामुकेति, भोगाभिलाषी संसारस्वभावानुवर्ती साम्प्रतापेक्षी स्वजनगृहकुटुम्बाद्यर्थ चतुर्दशासदनुष्ठानानि विधत्ते- यथा कश्चित् परस्य धनवतोऽनुगामुकभावं प्रतिपद्य तं बहुभिरुपायै26 विश्वासे पातयित्वा भोगार्थी मोहान्धो विवक्षितवञ्चनावसरापेक्षी लब्ध्वाऽवसरं तस्यासौ हन्ता छेत्ता व्यापादयिता भूत्वाऽपहृत्य सर्वस्वं भोगक्रियां विधत्ते तस्येदं कर्माऽऽनुगामुकमुच्यते । यस्त्वपकर्त्तव्याभिसन्धिना रिक्थवत उपचरकभावं प्रतिज्ञाय पश्चात्तं विनयोपचारैरुपचर्य विश्रम्भे पातयित्वा तद्व्यार्थी
तस्य हननछेदनव्यापादनादीनि विधत्ते तस्येदमनुष्ठानमौपचारिकम् । अपरः कश्चित्संमुखभावं प्रतिपद्या८. परस्यार्थवतः प्रतिपथे स्थित्वा तस्यार्थवतो विश्रम्भतो हननादि करोति, कर्मेदं तस्य प्रातिपथिकम् । 30 विरूपकर्मणा जीवितार्थी कश्चित् संधिच्छेदकभावं प्रपन्नः प्राणिनां हननादि करोति तस्येदं कर्म सन्धि
च्छेदकम् । इतरो प्रन्थिच्छेदकभावमवाप्य तमेवानुयाति करोति च तथा, तच्च कर्म प्रन्थिच्छेदकम् ।