________________
२९७
मिथ्यात्वादिसंवरोपदेशद्वारम्
पृथ्वीमुकुटकल्पायां, तस्यां तेजोभिरद्भुतः । माणिक्यमिव पृथ्वीशोऽभिचन्द्रो नामतोऽभवत् ।।२।। सूनुः सूनृतवाक् तस्य, वसुरित्यभिधानतः । अजायत महाबुद्धिः, पाण्डोरिव युधिष्ठिरः ।।३।। पार्श्वे क्षीरकदम्बस्य, गुरोः पर्वतकः सुतः । राजपुत्रो वसुश्छात्रो, नारदश्चापलुस्त्रयः ।।४।। सौधोपरि शयानेषु, तेषु पाठश्रमान्निशि | चारणश्रमणौ व्योम्नि, यान्तावित्यूचतुर्मिथः ।।५।। एषामेकतमः स्वर्गं, गमिष्यत्यपरौ पुनः । नरकं यास्यतस्तच्चाश्रौषीत् क्षीरकदम्बकः ।।६।। तच्छ्रुत्वा चिन्तयामास, खिन्नः क्षीरकदम्बकः । मय्यप्यध्यापके शिशू, यास्यतो नरकं हहा ।७।। एभ्यः को यास्यति स्वर्ग, नरकं कौ च यास्यतः ? | जिज्ञासुरित्युपाध्यायस् तास् त्रीन् युगपदाह्वयत् ।।८।। यावपूर्ण समप्य॒षामेकैकं पिष्टकुक्कुटम् । सं ऊचेऽमी तत्र वध्या, यत्र कोऽपि न पश्यति ।।९।। वसु-पर्वतको तत्र, गत्वा शून्यप्रदेशयोः । आत्मनीनां गतिमिव, जघ्नतुः पिष्टकुर्कुटौ ।।१०।। महात्मा नारदस्तत्र, वजित्वा नगराद् बहिः । स्थित्वा च विजने देशे, दिशः प्रेक्ष्येत्यतर्कयत् ।।११।। गुरुपादैरदस्तावदादिष्टं वत्स ! यत् त्वया ।
वध्योऽयं कुक्कुंटस्तत्र, यत्र कोऽपि न पश्यति ।।१२।। १. र-विपुलाभिधानोऽनुष्टुडभेदः । २. न-विपुलाभिधानोऽनुष्टुब्भेदः ।