________________
२९६
श्रीअध्यात्मकल्पद्रुमे धनवि.-अथ द्वितीयस्य वाग्योगस्य संवरमुपदिशति -
'वचो' इति, वचोऽप्रवृत्तिमात्रेण-वचनप्रवृत्त्यभावमात्रेण-वाक्प्रयत्नासामर्थ्येनेत्यर्थः मौनं-वाग्व्यापारराहित्यं, के के एकेन्द्रियादयो, रोगविशेषेण पञ्चेन्द्रियाश्च जन्तवो न बिभ्रते-न धरन्ति, अपि तु सर्वेऽपि धरन्तीति; तु-पुनर, येषां मुनीनां वचो-वचनं निरवयं-निष्पापं वर्त्तते, तान्-वचोगुप्तान् वाग्गुप्तिधरान् मुनीन् स्तुवेस्तुतिगोचरान् कुर्वे ।।१४.६ ।।
रत्न:-अथ मनःसंवरमुद्दिश्य चतुर्भिः श्लोकैर्वाक्संवरमाह -
वचोऽप्रवृत्तिमात्रेण-इति. व्याख्या-हे अङ्गिन् ! वचसोऽप्रवृत्तिरप्रवृत्तिमात्रं, तेन के के प्राणिन एकेन्द्रियादयो मूका वा मौनं न बिभ्रते ? - न धारयन्ति? वचनयोगाभावाद् द्रव्येन्द्रियोपघाताद् वा, अपि तु बहवो बिभ्रते, परं वागयोगे सति द्रव्येन्द्रियपाटवे सति वा, येषां महात्मनां निरवयं-सावद्यप्रवृत्तिरहितं वचो वर्त्तते, तान्-वचसा गुप्तान्-वाग्गुप्तिमतः स्तुवेऽहमिति ।।१४.६ ।।
[४२६] निरवद्यं वचो ब्रूहि,
सावधवचनैर्यतः | प्रयाता नरकं घोरं,
वसुराजादयो द्रुतम् ।।१४.७।। धनवि.-अथ वाग्गुप्त्यभावेऽनिष्टफलं दृष्टान्तपूर्वकं दर्शयन्नुपदिशति - 'निरवद्यम्' इति, ततः कारणात्, निरवद्य-निष्पापं वचो-वचनं ब्रूहि-वद, यतः-कारणात् सावधवचनैः-अलीकवचनैर्, वसुराजादयो-वसुनामनृपप्रभृतयः सपापवचनवक्तारो द्रुतं-शीघ्रं घोरं-रौद्रं सप्तमं नरकं प्रयाता:-प्रकर्षण प्राप्ताः । भावार्थस्तु वसुराजकथातोऽवसेयः, तत्कथा चेयम् -
अस्ति चेदिषु विख्याता, नाम्ना शुक्तिपुरी पुरी ।
शुक्तिमत्याख्यया नद्या, नर्मसख्येव शोभिता ।।१।। १. वचो० - मु० । २. शोभना । मु० ।