________________
२९८
श्रीअध्यात्मकल्पद्रुमे असौ पश्यत्यहं पश्याम्यमी पश्यन्ति खेचराः । लोकपालश्च पश्यन्ति, पश्यन्ति ज्ञानिनोऽपि च ।।१३।। नास्त्येव स्थानमपि तद्, यत्र कोऽपि न पश्यति । तात्पर्यं तद्गरुगिरां, न वध्यः खलु कुक्कुंटः ।।१४।। गुरुपादा दयावन्तः, सदा हिंसापराङ्मुखाः । अस्मत्प्रज्ञां परिज्ञातुमेतन्नियतमादिशत् ।।१५।। विमृश्यैवमहत्वैव, कुक्कुटं स समाययौ । कुर्कुटाहनने हेतुं, गुरोर्व्यज्ञपयच्च तम् ।।१६ ।। स्वर्गं यास्यत्यसौ तावदिति निश्चित्य सस्वजे । गुरुणा नारदः स्नेहात्, साधु साध्वितिभाषिणा ।।१७।। वसु-पर्वतको पश्चादागत्यैवं शशंसतुः | निहतौ कुर्कुटौ तत्र, यत्र कोऽपि न पश्यति ।।१८।। अपश्यतां युवामादावपश्यन् खेचरादयः । कथं हतौ कुर्कुटौ रे ?, पापावित्यशपद् गुरुः ।।१९।। ततः खेदादुपाध्यायो, दध्यौ विध्यातपाठधीः । मुधा मेऽध्यापनक्लेशो, वसु-पर्वतयोरभूत् ।।२०।। गुरूपदेशो हि यथा पात्रं परिणमेदिह । अभ्राम्भः स्थानभेदेन, मुक्ता-लवणतां व्रजेत् ।।२१।। प्रियः पवर्तकः पुत्रः, पुत्रादप्यधिको वसुः । नरकं यास्यतस् तस्माद् गृहवासेन किं मम ? ||२२।। निर्वेदादित्युपाध्यायः, प्रव्रज्यामग्रहीत् तदा ।
तत्पदं पर्वतोऽध्यास्त, व्याख्याक्षणविचक्षणः ।।२३।। १. न-विपुलाभिधानोऽनुष्टुब्भेदः । २. र-विपुला । ३. स-विपुला० |