________________
२६४
श्रीअध्यात्मकल्पद्रुमे दुःखावलेरित्यर्थः क्षयः-आत्यन्तिकी निवृत्तिलक्षणो वर्त्तते, कष्टेन किंलक्षणेन ? - साम्यं-समता तदेव नियन्त्रणा, अथवा तेन नियन्त्रणा तया भुवा-जनितेन, पुनः कीदृशेन ? - चरित्रात्-चारित्रपालनाज्जातं तेन, तत्-तर्हि अर्थितं-कामितं त्वया किं ना-ऽवापि ? - न प्राप्तं, अपि तु सर्वमप्यवापीति ।।१३.३६ ।।
[३७२] त्यज स्पृहां स्व-शिवशर्मलाभे,
स्वीकृत्य तिर्यग्-नरकादिदुःखम् । सुखाणुभिश्चेद् विषयादिजातैः,
संतोष्यसे संयमकष्टभीरुः ||१३.३७।। धनवि.-अथ परीषहसहनाभावेऽशुभफलमुपदर्शयन्नुपदिशति -
'त्यज स्पृहाम्' इति, तदा तिर्यग्-नरकादिदुःखं स्वीकृत्य. स्वः-शिवशर्मलाभेस्वर्गा-ऽपवर्गसुखप्राप्तौ स्पृहाम्-अभिलाषं त्यज-मुञ्च, अत्र तिर्यञ्चश्च-जलचरस्थलचर-खेचरभेदा मत्स्य-श्वान-काकादयः, नरकाश्च-नारकः, ते आदौ येषां ते तिर्यग्-नरकादयः, तेषां दुःखं, आदिपदात् मनुष्यभवगतगर्भवास-जरामरणादिपरिग्रहः, चेद्-यदि संयमकष्टभीरुः सन्-चारित्रपालनजनितकष्टभीतः सन् त्वं, विषयादिजातैः-विषय-कषायप्रभवैः सुखाणुभिः-सुखलेशैः, संतोष्यसेहृष्यसे इति कर्मोक्तौ ।।१३.३७।।
रत्न.-अथाचार्यः प्रमादिनं यतिं दृष्ट्वा असूयावचनमाह -
त्यज स्पृहाम्..इति. व्याख्या-हे यते ! त्वं तिर्यग्-नरकादीनां दुःखं स्वीकृत्य, स्वः-स्वर्गस्य, शिवस्य-मोक्षस्य शर्मणां-सुखानां लाभे स्पृहां-वाञ्छां त्यज-जहीहि, चेद्-यदि त्वं सुखाणुभिः संतोष्यसे-संतोषं प्राप्यसे, अतीवाऽल्पत्वादेवाणूनामुपमानं, यतः किंलक्षणैः ? - विषयः-शब्दादयस्ते आदौ येषां विषयादयः, तेभ्यो जातैःसमुत्पन्नैः, आदिशब्दाद् विषयसाधनवीणा-ललनारूप-कमल-शर्करा-दुकूलादीनां ग्रहणं, त्वं किंलक्षणः ? - संयमस्य-चारित्रस्य कष्टेभ्यो भीरु:-भयवान, अनेन पूर्वोक्ता परस्परं सप्रतिपक्षता व्यजितेति ।।१३.३७ ।।