________________
२६३
यतिशिक्षोपदेशद्वारम् गुणं-मोक्षप्राप्तिलक्षणमुपकारं नाप्स्यसि ।।१३.३५।।
रत्न.-अथ परवशतया सहनतः स्ववशतया सहनस्य सुन्दरतां दर्शयति
सह तपो-यम-संयमयन्त्रणाम् इति. व्याख्या-हे मुने ! तपसां-चतुर्थादीनां, यमानां-विकृतिप्रत्याख्यानादिनियमानां, संयमः-पंचमहाव्रतरूपः, तेषां यन्त्रणां सह-क्षमस्व, हि यस्माद्धेतोः, स्ववशतया सहने सति महान् गुणो वर्त्तते, अथवा (पाठान्तरं) शिवं मोक्ष एव गुणो वर्त्तते, तुरिति विशेषे, त्वं परेषां वशः-अधीनः सन्नतिभूरि-अतिघनं यथा स्यात् तथा सहिष्यसि, च पुनः कञ्चन बहु गुणं नाप्स्यसि-न लप्स्यसे ||१३.३५।। [३७१] अणीयसा साम्यनियन्त्रणाभुवा,
मुन!ऽत्र कष्टेन चरित्रजेन च । यदि क्षयो दुर्गति-गर्भवासगा
ऽसुखाऽऽवलेस्तत् किमवापि नार्थितम् ? ||१३.३६।। धनवि.-अथ परीषहातिसहने एव शुभफलं दर्शयन्नुपदिशति -
'अणीयसा' इति, हे मुने ! अत्र-इह भवे, अतिशयेन अणु अणीयस्तेन अणीयसा-अत्यल्पेनेत्यर्थः साम्यनियन्त्रणाभुवा कष्टेन च पुनश्,-चारित्रजेन-अणीयसा कष्टेन परीषहसहनलक्षणेन यदि-चेद्-दुर्गतिगर्भवासगाऽसुखावलेः क्षयो-विनाशो भवेदिति, साम्यनियन्त्रणाभुवा-समतालक्षण-मनोनिरोधलक्षणनियन्त्रणाजन्येनेत्यर्थः, दुर्गति-गर्भवासगा-ऽसुखा-ऽऽवले-दुर्गतिश्च-तिर्यग्-नरकगतिलक्षणा, गर्भवासश्चस्त्रीकुक्षौ गर्भतया स्थितिः, तद्गता या असुखाना-दुःखानाम्, आवलिः-श्रेणिस्तस्या इत्यर्थः, तत्-तदाऽनन्तरोक्तेनाणीयसा कष्टेन किमर्थितं-वाञ्छितं ना-ऽवापि-न प्राप्तम् ?, अपि तु सर्वं प्राप्तमित्यर्थः ।।१३.३६ ।।
रत्न.-पुनः प्रकारान्तरेणैतदेवाचष्टे -
अणीयसा साम्यनियन्त्रणाभुवा..इति. व्याख्या-हे मुने ! अत्र भवे, अतिशयेनाणुअल्पमणीयः, तेनाणीयसा कष्टेन दुर्गति-गर्भवासगा-ऽसुखा-ऽऽवलेः-दुर्गति-गर्भवासग