________________
२६५
यतिशिक्षोपदेशद्वारम्
[३७३] समग्रचिन्तातिहृतेरिहापि,
यस्मिन् सुखं स्यात् परमं रतानाम् । परत्र चन्द्रादिमहोदयश्रीः,
प्रमाद्यसीहापि कथं चरित्रे ? ||१३.३८।। धनवि.-अथ परीषहसहने इहलोके परलोके च शुभफलं दर्शयन्नुपदिशति
'समग्र' इति, यस्मिन् चरित्रे रतानाम् आसक्तानां प्राणिनाम्, इहापि-इहलोकेऽपि, समग्रचिन्तार्तिहृतेः परमं-प्रकृष्टं सुखं स्याद्-भवति, अत्र समग्राः सकलाश्च ताश्, चिन्ताश्च-राजचौरादिभयलक्षणा अर्तयश्च-स्वपरोदरभरण-पूरणलक्षणाः, तासां हृतेः-हरणादभावादित्यर्थः, च पुनः, परत्र-परलोके इन्द्रादिमहोदयश्री-इन्द्र आदौ येषां ते इन्द्रादयो-महर्द्धिका देवाः, आदिपदादहमिन्द्रादयः, ते च महोदयश्च मोक्षस्,-तेषां श्री:-संपत्तिः स्याद्, अत्र तत इत्यध्याहार्यं, तेन ततः कारणादिहापिअस्मिन्नप्यैहिकपरमसुखसाधने पारलौकिकइन्द्रत्वा-ऽहमिन्द्रत्व-मोक्षसुखसाधने च चरित्रे-चारित्रे, कथं-कुतो हेतोः प्रमाद्यसि ? - प्रमादं गच्छसि, भावार्थस्तु - [३७४] "न च राजभयं न च चौरभयं, वरकीर्तिकरं नरदेवहितम्' ।
इहलोकसुखं परलोकहितं, श्रमणत्वमिदं रमणीयतरम्" ।। [ ] इति सूक्तभावनया स्पष्ट एवेति ।।१३.३८ ।। रत्न.-अथ यत् पूर्वोक्तसाम्यसुखानामानन्त्यं तदेव स्पष्टयति -
समग्रचिन्ता..इति. व्याख्या यस्मिन् चारित्रे-चरणे रतानां-रागमापन्नानाम्, इहापिइहलोकेऽपि परमम्-उत्कृष्टं सुखं स्यात्, कस्य हेतोः ? - समग्राणां वस्तूनां चिन्तया कृत्वा आर्तीनां-पीडानां हृतिः-हरणं तस्याः, च पुनः, परत्र-परलोके इन्द्रादीनां, महोदयस्य च-मोक्षस्य च श्रीः-लक्ष्मीर्भवति हे यते ! तेनेहापि चरित्रे-संयमे कथं प्रमाद्यसि ? - प्रमादवान् भवसि, अपितु मा प्रमाद्य, यत उक्तम् - १. 'नतम्' - मु० ।