________________
कषायनिग्रहद्वारम्
'को गुणस्' इति-हे आत्मन् ! कषायैः-क्रोधादिभिः तव कर-किंनामा, च पुनः कदा-कस्मिन् काले गुणः-उपकारो निर्ममे-चक्रे, यद्-यस्माद्, इमान्कषायान् नित्यं-निरन्तरं भजसि-सेवसे ?, च पुनरमीषां-कषायाणाम्, अत्र-इह लोके तापं-चित्तपरितापं पश्चात्तापलक्षणं, च पुनः परत्र-परलोके नरकगतिप्राप्तिलक्षणं दोष-वैगुण्यं किं न पश्यसि-न विलोकयसीत्यर्थः ? |७.५।।
रत्न.-अथ भङ्ग्या कषायेषु गुणाभावं दर्शयन्नाह -
को गुणस्तव...इति., व्याख्या-हे आत्मन् ! च पुनरहं त्वां पृच्छामि त्वं कथयेति शेषः, तव कषायैः-क्रोध-मान-माया-लोभैः को गुणो निर्ममे-निर्मितः ! यद्-यस्मात् कारणात् इमान् कषायान् नित्यं भजसि-सेवसे, नित्यं सेवा तु तेषामेव क्रियते यैः कदापि कश्चिद् गुणः कृतो भवति, अकृतगुणानां सेवाऽजागलस्तमुखप्रक्षेप इवेति सूचनं, अथ गुणोऽपि कृतो मा भवतु यदि दोषः कृतो न स्यात्, ततो गुणेऽसत्यपि कषायदोषमाह-हे आत्मन् ! अमीषां कषायाणां दोषं किं न पश्यसि ?, अपि तु पश्य, तमाह-अत्र-इह लोके तापं-तपनं शरीरे उष्णीभवनं, चित्तसन्तापं वा परत्र-प्रेत्य नरकं-नरकगतिमिति ।७.५।।
[१५८] यत् कषायजनितं तव सौख्यं,
यत् कषायपरिहाणिभवं च | तद् विशेषमथवैतदुदक्क,
संविभाव्य भज धीर ! विशिष्टम् ।७.६ ।। धनवि.-अथ कषायसेवना-ऽसेवनयोः फलविशेषविभावनामाह -
'यत् कषाय...' इति-हे आत्मन् ! तव कषायजनितं-स्वापराधिषु क्रोधादिकरणादिनोत्पादितं यत् सौख्यं, कषायाणां परिहाणि-क्षयः तदुद्भूतं च यत् सौख्यं भवति, तद्-विशेष-तयोः-कषायजनितसुख-कषायक्षयजनितसुखयोर्विशेषन्यूनाधिकगुणतालक्षणम्, अथवा एतदुदङ-कषायकरण-कषायाऽकरणयोरुत्तरकाल१. लोभैः कदा को० मु० ।