SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीअध्यात्मकल्पद्रुमे " प्रादुर्भूतं कुगति-सुगतिलक्षणं फलं - साध्यं संविभाव्य- सम्यग् पर्यालोच्य हे धीर ! विशिष्टं-वरिष्ठमनयोर्मध्ये, भज- श्रयेत्यर्थः ।।७.६ ।। १०० रत्न.–अथ कषायकरणा-ऽकरणे सुखविचाराय प्रेरयितुमाह यत् कषाय-जनितम्... इति., व्याख्या- हे आत्मन् ! यत् कषायैर्जनितं तव सौख्यं वर्तते, च पुनर्यत् कषायाणां परिहाणिः-परित्यागः, तस्या भवम्-उत्पन्नं सुखं वर्त्तते तयोर्विशेषम्, अथवैतयोः कषाय-कषायपरिहाण्योरुदर्कम्उत्तरकालभावि फलं संविभाव्य- सम्यग् विचार्य, तयोर्मध्ये हे धीर ! विशिष्टंवरिष्ठं भज-सेवस्व ।।७.६।। [१५९] सुखेन साध्या तपसां प्रवृत्तिरयथा तथा नैव नु मानमुक्तिः । आद्या न दत्तेऽपि शिवं परा तु, निदर्शनाद् बाहुबलेः प्रदत्ते ।।७.७ ।। - धनवि . – अथ सामान्यतः कषायनिग्रहमुपदिश्य पूर्वोपदिष्टं विशेषतः पुनर्माननिग्रहमुपदिशति — 'सुखेन' इति-यथा-येन प्रकारेण तपसां अनशनादीनां प्रवृत्तिः- आचरणा सुखेनअप्रयासेन साध्या, तथा-तेन प्रकारेण मानमुक्तिः- अहङ्कारनिवृत्तिः सुखेन साध्या नैव भवति; यतः कारणाद् आद्या-तपसां प्रवृत्तिः केवला शिवं- मोक्षं न दत्तेऽपि - न ददात्यपीत्यर्थः, अत्रापिशब्देन तपसां प्रवृत्तिर्मानमुक्तिसहिता शिवं दत्ते, मानसहिता च शिवं न दत्ते इति सूच्यते तु पुनः परा-मानमुक्तिर्बाहुबलिनिदर्शनाद्बाहुबलिदृष्टान्ताच्छिवं प्रदत्ते-निश्चयेन ददातीत्यर्थः [१६०] "धम्मो मएण हुंतो तो न वि सीउण्हवायविज्झडिओ । संवच्छरमणसीओ बाहुबली तह किलिस्संतो " ।। [उप.२५]।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy