________________
श्रीअध्यात्मकल्पद्रुमे धनवि.-दुर्वचनादिपराभवसहने शिवं भवतीत्युपदिशति - 'श्रुत्वा' इति-यः पुमान् आक्रोशान्-निष्ठुरवचनानि श्रुत्वा-आकर्ण्य मुदा-हर्षेण पूरितो-व्याप्तः स्यात्, च पुनर्यो लोष्टाद्यै-पाषाणखण्डप्रभृतिभिः, आहत:आहननविषयीकृतो रोमहर्षी-रोमाञ्चितः स्यात्, च पुनर्यः प्राणान्तेऽपिजीवितनाशेऽप्यन्यदोष-परापवादं न पश्यति-न विलोकयति, उपलक्षणत्वान्न वक्ति च, स एष योगी-मुनिः श्रेयो-मोक्षं द्राक् लभेतैव-निश्चयेन प्राप्नुयादित्यर्थः, अत्रैवकारोऽत्यन्तायोगं व्यवच्छिनत्तीति ।७.४।।
रत्न.-अथ कषायपरित्यागे मुक्तिफलमाह -
श्रुत्वाऽऽक्रोशान्-इति., व्याख्या-यो देही आक्रोशान् मुग्धा-ऽनार्यजनकृतान्, श्रुत्वा मुदा-हर्षेण पूरितो-व्याप्तः स्यात्, यैः शब्दैरेष मामाक्रोशति, तच्छब्दानां प्रवृत्तिनिमित्तमहमनन्तशो बभूव, तर्हि कः कषाय इति ?, च पुनर्यो लोष्टाद्यैराद्यशब्दाद् यष्टि-लगुडादिग्रहणं, आहतः-ताडितः सन् लोमहर्षो-रोमोत्कम्पो अस्यास्तीति लोमहर्षी स्याद्, वरं मम कर्मक्षये सहायी मिलित इति गजसुकुमालाद्यर्षिवद्, यः प्राणान्तेऽप्यन्येषां दोषं न पश्यति, अहं चेद् दोषवान्, तदा न्येषां दोषदर्शने का ईहेति विमृश्य । एष इति-एतद्गुणवान् योगी मनोवचन-काययोगवान् द्राक्-शीघ्रमेवेति-निश्चये श्रेयो-मोक्षं लभेत-प्राप्नुयात् । ७.४ ।। [१५७] को गुणस्-तव कदा च कषायैर्निर्ममे ?
भजसि नित्यमिमान् यत् । किं न पश्यसि च दोषममीषां,
तापमत्र नरकं च परत्र ? |७.५।। धनवि.-अथ सामान्येन कषायाणां निग्रहमुपदिशति -
१. टीकापाठभेदः ।