________________
[८९
गुणानुमोदनाद्वारे ढण्ढणकथा]
श्रीनेमिरेकदा विश्वं बोधयन् रैवताचले । समेत्य समवासीदृषीन्द्रपरिवारितः ॥६॥ श्रुत्वेति द्वारकानाथः सनाथः संमदश्रिया । सान्तः पुरपरिवारो विभुं वन्दितुमाययौ ॥७॥ यथाविधि नमस्कृत्य निविष्टेषु नृपादिषु । स्वामी मुक्तिपुरीमार्गदर्शिनी देशनां व्यधात् ॥८॥ देशनान्ते गतौ पुर्यामापृच्छ्य पितरावथ । कुमारौ ढण्ढणः स्वामिसविधे व्रतमग्रहीत् ॥९॥ तप्यमानस्तपस्तीवं सहमानः परीषहान् । स्पष्टं सोऽध्यैष्ट सिद्धान्तं स्थविरेभ्यः स्थिराशयः ॥१०॥ अन्यदा कर्म तस्योच्चैरान्तरायकमुद्ययौ । हन्ताऽयं लाभहन्ताऽभूद् येन स्वस्य परस्य च ॥११॥ साधवोऽथ जगन्नाथमपृच्छन किं न ढण्ढणः । कुत्रापि लभते किञ्चिन्नगर्यामृद्धिभाज्यपि ॥१२॥ "अथावदद् विभुामे धान्यपूराभिधे पुरा । विपो मगधदेशेऽभूदयं नाम्ना परासरः ॥१३॥ ग्रामे राजनियुक्तोऽसौ ग्राम्यैः क्षेत्राणि वापयन् । सीतामाकर्षयद्भक्तेऽभ्युपेतेऽपि पृथक् पृथक् ॥१४॥ बुभुक्षितानपि श्रान्तानपि तृष्णातुरानपि । वृषान् दासांश्च स क्रूरो न मुमोच कथञ्चन ॥१५॥ इत्यन्तरायमर्जित्वा कर्म भ्रान्त्या चिरं भवे । ढण्ढणो विष्णुपुत्रोऽभूत् पूर्वकर्मोदितं च तत्" ॥१६॥ समाकयेति संविग्नः कृष्णासूनुः पुरः प्रभोः । अभ्यग्रहीदिदं यद् नो भोक्ष्येऽहं परलब्धिभिः ॥१७॥
20: