________________
९०]
[विवेकमञ्जरी परलब्धं न तद् भुङ्क्ते लभते न स्वयं क्वचित् । कालक्षेपमसावित्थं चक्रे दुष्करकारकः ॥१८।। वासुदेवोऽन्यदाऽपृच्छद् नेमिनाथं समास्थितम् । मुनीनामन्तरे ह्येषां को नु दुष्करकारकः ? ॥१९।। स्वाम्याह दुष्करकराः सर्वेऽमी ढण्ढणस्त्वति । - इयन्तं योऽत्यगात् कालं सोढा लाभपरीषहम् ॥२०॥ नत्वाथ स्वामिनं कृष्णः पुरीं द्वारवतीं विशन् । मुनि ढण्ढणमालोक्याऽनमदुत्तीर्य कुञ्जरात् ॥२१॥ विष्णुनापि ववन्देऽसाविति केनापि मोदकैः । ढण्ढणो गृहमायातः श्रेष्ठिना प्रत्यलाभ्यत ॥२२॥ ढण्ढणोऽभ्येत्य सर्वज्ञं नत्वा चैवं व्यजिज्ञपत् । कि मेऽन्तरायकं कर्म क्षीणं भिक्षां यदाप्नवम् ? ॥२३।। जिनो जगाद नो कर्म क्षीणं लब्धिश्च नैव ते । वन्दमानं हरिं दृष्ट्वा यत् त्वां स प्रत्यलाभयत् ॥२४॥ रागादिरहितः सोऽथ परलब्धिरसाविति । परिष्ठापयितुं भिक्षां प्रारेभे स्थण्डिलावनौ ॥२५॥ मोदकानिष्टकादाहचूर्णेन सह चूर्णयन् । सशब्दमयमात्मारिगात्रभङ्गमिवातनोत् ॥२६॥ कराभ्यां मोदकानेष कणशः कणशो बहिः ॥ कर्माणि चूर्णयामास शुक्लध्यानेन चान्तरा ॥२७॥ किमन्यदथ स प्राप ज्ञानं मोदकमद्भुतम् । एकोऽपि मण्डकः पञ्च पलानि किमु वा बहु ? ॥२८॥ कृतकेवलिमहिमा सुरसाथैः श्रीनेमिना समं विहरन् । कालक्रमेण मोक्षं गतवान् ढण्ढणकुमारोऽयम् ॥२९॥३२॥
॥ इति ढण्ढणकुमारकथा ॥
25