________________
८८]
[विवेकमञ्जरी
अथ दौर्गत्यदलनदृढसारढण्ढणकुमारगुणरत्नभारमुदाहरन्नाह - घोरंतरायकम्माणुसएणं सो वि ढंढणकुमारो । उम्मूलइ उज्जुत्तो सव्वाइं चेव कम्माइं ॥३२॥ [घोरान्तारयकर्मानुशयेन सोऽपि ढण्ढणकुमारः।
उन्मूलयत्युद्युक्तः सर्वाण्येव कर्माणि ॥] व्याख्या । अपीतिसंभावनायाम् । यस्य यदुवंशनभोरत्नं नवमोऽर्धचक्री पिता, द्वाविंशतितमश्च जिनेश्वरो गुरुः, अतः सुप्रसिद्धो ढण्ढणकुमारः 'उज्जुत्तो' उद्युक्तोऽङ्गीकृताभियोगभङ्गीकः, 'सव्वाइं चेव' सर्वाण्येव कर्माणि ज्ञानावरणादीनि
'उन्मूलइ' उन्मूलयति समूलकाष कषति, गुम्फनकाले कविमनसि वर्तमानत्वाद10 स्येति वर्तमाना । केन हेतुना ? 'घोरंतरायकम्माणुसएणं' घोरे भयङ्करे अन्तरायकर्मणि योऽनुशयो दृढमत्सरः स तथा तेन, यदुक्तमस्माभिः -
"एकापराधे तद्गोत्रं निर्मूलं कुरुते जयी।
निहन्ति यत्तमोजातं तमसार्क : खलीकृतः" ॥ [ ] इति संक्षेपार्थो, व्यासार्थस्तु कथानकादवसेयः, तच्चैतत् –
द्वारकेत्यस्ति नगरी गरीयः श्रीनिकेतनम् । स्फारहारायिताम्भोधि निकषा नाभिवद् भुवः ॥१॥ तत्रार्धचक्री नवमः कृष्णनामाऽभवद् नृपः । यत्प्रतापप्रदीपस्य कज्जलं मण्डलं दिवः ॥२॥ द्वात्रिंशच्च सहस्राणि तस्यासन् शासितुः प्रियाः । तास्वभूड्डण्ढणा नाम राज्येकाऽनेकसद्गुणा ॥३॥ तत्कुक्षिशुक्तिकारत्नं तस्य त्रासविवर्जितः । पुत्रो बभूव ढण्ढणकुमार इति विश्रुतः ॥४॥ उद्यौवनः क्रमेणायं करिणीभिरिव द्विपः । कन्याभिरवनीशानां हरिणा परिणायितः ॥५॥
15