________________
४]
कायस्थितिप्रकरणम् [प्रथमादिनरकाणामुत्कृष्टकायस्थितिः त्वग्रे वक्ष्यते “साइअपज्जवसाणा" इत्यादिना । एवमन्यत्रापि यथास्थानं प्रकृतिबन्धमाश्रित्य बोधनीया मार्गणानां कायस्थितिः ॥१॥ सम्प्रति नरकगतेरवान्तरभेदानामेकजीवाश्रितामुत्कृष्टकायस्थितिं वक्तुकाम आहपढमाइगनिरयाणं कमसो एगो य तिण्णि सत्त दस।
सत्तरह य बावीसा तेत्तीसा सागरा णेया ॥२॥ (०) 'पढमाइ.' इत्यादि, 'प्रथमादिनिरयाणां प्रथम आदौ येषाम् , ते प्रथमादिकाः, ते च ते निरयाश्च प्रथमादिकनिरयाः,, तेशाम्, रत्नप्रभा-शर्कराप्रभा-वालुकाप्रभा-पङ्कप्रभा-धूमप्रभातमःप्रभा-महातमःप्रभागतानां सप्तानां निरयभेदानामित्यर्थः, 'क्रमश:' क्रमेण एकः; चकारः पादपूत्य, एवमग्रेऽपि, त्रयः, सप्त दश सप्तदश द्वाविंशतिस्त्रयस्त्रिंशत् ‘सागराः' पदैकदेशे पदसमुदायोपचारात् सागरोपमाः, 'ज्ञेया" प्रस्तुतत्वाद् एकजीवाश्रयोत्कृष्टा कायस्थितिर्बोध्या । इदमुक्तं भवति-प्रथमपृथिवीनरकस्यैकजीवविषयोत्कृष्टकायस्थितिरेकः सागरोपमः, "अर्थवशाद् वचनविपरिणामः" इति न्यायेन बहुवचनान्तसागरोपमशब्दस्यैकवचनान्तत्वेन विपरिणामः, द्वितीयपृथिवीनरकस्य त्रिसागरोपमाः, तृतीयपृथिवीनरकस्य सप्तसागरोपमा, चतुर्थपृथिवीनरकस्य दशसागरोपमाः, पञ्चमथिवीनरकस्य सप्तदश सागरोपमाः, षष्ठपृथ्वीनरकस्य द्वाविंशतिः सागरोपमाः, सप्तमपृथिवीनरकस्य च त्रयस्त्रिंशत्सागरोपमाः, यतो नारकाणां तद्भवतश्च्युत्वा-ऽनन्तरभवे नारकत्वेना-ऽनुत्पादादुत्कृष्ट भवस्थितिरेवोत्कृष्ट कायस्थितिर्भवति । उत्कृष्टभवस्थितिश्च रत्नप्रभादिषु जीवानां वाचकमुख्यैस्तत्त्वार्थसूत्रे यथोक्तप्रमाणैवा-ऽभिहिता । तथा च तद्ग्रन्या-"तेष्वेक-त्रि-सप्त-दशसप्तदश-द्वाविंशति त्रयस्त्रिंशत्मागरोपमाः सत्त्वानां परा स्थितिः।" इति । अत्र 'तेषु'-रत्नप्रभादिनरकेषु । इयं तूत्कृष्टकायस्थितिरेकजीवाश्रिता सामान्यत उक्ता। विशेषतः पुनस्तत्तत्पृथिवीप्रस्तटेषु भिन्ना भिन्ना नारकाणामुत्कृष्टकायस्थितिर्भवति, उत्कृष्टभवस्थितेस्तथात्वाद् नारकाणां च भवस्थितेरेव कायस्थितित्वात् । एतदुक्तं भवति-प्रथमपृथिव्यां त्रयोदश (१३) नरकप्रस्तटाः। द्वितीयस्यां पृथि. व्यामेकादश (११), तृतीयस्यां नव (७)। ततो द्वाभ्यां द्वाभ्यां हीनास्तावद् वक्तव्याः, यावत् सप्तमी नरकपृथिवी । तस्यां तु त्वेक एवं प्रस्तटः । उक्तं श्रीजिनभद्रगणिक्षमाश्रमणैः"तेरिकारस नव सत्त पंच तिन व हुंति इको य । पत्थडसंखा एसा, सत्तसु वि कमेण पुढवीसु ॥१॥” इति
तत्र प्रथमपृथिव्या रत्नप्रभायाः प्रथमप्रस्तटे नारकस्योत्कृष्टकायस्थितिर्नवतिवर्षसहस्रणि (९०,०००)द्वितीयप्रस्तटे वर्षाणां नवतिलक्षाः, (९००००००)तृतीये क प्रस्तटे पूर्वकोटिवर्षाणाम्
ॐ धवलाकारास्तु प्राहुर संख्येयपूर्वकोटीप्रमाणामुत्कृष्टकायस्थितिं प्रथमनरकतृतीयप्रस्तटे। अक्षराणि त्वेवम्-"तदियपत्थडे xxxx उक्कोस्समसंखेज्जाओ पुन्यकोडीओ।" इति ।