SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ प्रतिप्रस्तटं रत्नप्रभाशर्कराप्रभानारकाणां स्थितिः ] काय स्थितिप्रकरणम् [ ५ चतुर्थे प्रस्तट एकः सागरोपमस्य दशभागः (११) पञ्चमे प्रस्तटे द्वौ सागरोपमस्य दशभागौ (२ ४ १ सा.) षष्ठे प्रस्तटे त्रयः सागरोपमस्य दशभागा: ( १ सा.) सप्तमे प्रस्तटे चत्वारः सागरोपमस्य दशभागाः (१) अष्टमे प्रस्तटे पञ्च सागरोपमस्य दशभागाः (४ X ' सा.) नवमे प्रस्तटे षट् सागरोपमस्य दशभागा: ( *. १ सा.) दशमे प्रस्तटे सप्त सागरोपमस्य दशभागाः (X 'सा.) एकादशे प्रस्तटेष्ट सागरोपमस्य दशभागाः, (१) द्वादशे प्रस्तटे नव सागरोपमस्य दशभागाः (* 'सा), त्रयोदशे प्रस्तट एकं सागरोपमं भवति, यतो नारकाणां पुनरनन्तरभवे नारकत्वेनाऽनुत्पादादुत्कृष्टभवस्थितिरेवोत्कृष्टकाय स्थितिर्भवति, तत्तप्रस्तरस्थानां च नारकाणामुत्कृष्टभवस्थितिश्च यथोक्तप्रमाणा, यदुक्तं श्रीमज्जिन भद्रगणिक्षमाश्रमणपादैवृहत्संग्रहण्याम् "दस नउई य सहस्सा, पढमे पयरम्मि ठिइ जहन्नियरा । सा सयगुणिआ बिइए, तइयम्मिः पुणो इमा होइ ॥ १॥ नई लक्ख जना, उक्कोसा पुव्वकोडि निद्दिट्ठा | आईल्लपुत्रकोडी दसभागो सावरस्थियरा ||२|| दसभागो पंचमए दो दसभागा य होइ उक्कोसा। एगुत्तरवुड्ढीए दसेव भागा भवे जाव ||३||" इति । द्वितीयादिनरकपृथिवीषु पुनः पूर्वपृथिवोगतोत्कृष्टस्थितिः स्वोत्कृष्टस्थितितो विशोधियितव्या । विशोधने च कृते यदवशिष्यते, तत् स्वप्रस्तटैर्विभज्यते, तदा यद् लभ्यते, तदिष्टप्रस्तटमानेन गुण्यते, गुणिते च सति यदागच्छति, तेन सहिता पूर्वपृथिवीगतोत्कृष्ट स्थितिस्तत्प्रस्तट उत्कृष्टा स्थितिर्भवति । यथा शर्कराप्रभायामुत्कृष्टस्थितिस्त्रीणि सागरोपमाणि, तेभ्यो रत्नप्रभोत्कृष्टस्थितिरेकसागरोपमप्रमिता विशोध्यते । तदा द्वे सागरोपमे अवशिष्येते । ते च शर्करा प्रभागतैरेकादशप्रस्तटैर्विभज्येते, तदा लभ्येतां द्वौ सागरोपमस्यैकादशभागौ (३६), तौ चेष्टप्रस्तटमानेनैकेन गुण्यते, एकेन च गुणितं तदेव भवतीति तावेव द्वौ सागरोपमस्यैकादशभागौ जातौ, ताभ्यां च सहिता पूर्व - पृथिवीलक्षणरत्नप्रभागतोत्कृष्टस्थितिः शर्कराप्रभायाः प्रथमे प्रस्तट उत्कृष्ट स्थितिरेकं सागरोपमं द्वौ च सागरोपमस्यैकादशभागौ । यदि पुनर्द्वितीयप्रस्तट उत्कृष्ट स्थितिर्ज्ञातुमिष्यते, तर्हि तौ द्वौ सागरोपमस्यैकादशभागौ द्वाभ्यां गुण्येते, जाताश्चत्वारः सागरोपमस्यैकादशभागाः, तैर्युक्ता रत्नप्रभा - पृथिव्युत्कृष्ट स्थितिः शर्कराप्रभाया द्वितीयप्रस्तट उत्कृष्ट स्थितिश्चतुर्भिः सागरोपमस्यैकादश भागेरधिकमेकसागरोपमं भवति । एवमग्रेऽपि भावनीयम् । अनेन करणेन शेषपृथिवीनां प्रस्तटेषूत्कृष्टस्थितिर्निश्वेतव्या । तथाहि - शर्कराप्रभायाः प्रथमप्रस्तट उत्कृष्टा स्थितिरेकजीवाश्रिता एकं सागरोपमं द्वौ च सागरोपमस्यैकादशभागौ (१२५), द्वितीय प्रस्तटे चतुर्भिः सागरोपमस्यैकादशभागैरधिकमेकं सागरोपमम् (१६१), तृतीय एकं सागरोपमं षट्सागरोपमस्यैकादशभागा : (११६), चतुर्थ एकं सागरोपममष्टौ च सागरोपमस्यैकादशभागाः (१६), पञ्चम एकं सागरोपमं दश च सागरोपमस्यैकादशभागाः (१११ ), षष्ठ एकेन सागरोपमस्यैकादशभागेनाऽधिके द्वे सागरोपमे (२१), सप्तमे त्रिभिः सागरोपमस्यैकादशभागैरधिके द्वे सागरोपमे (२११), अष्टमे पञ्चभिः
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy