SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ क्षायिकसम्यक्त्वस्योत्कृष्टकायस्थितिः ] कायस्थितिप्रकरणम "मणनाणविभंगेसु मीसं उरलं पि नारयसुरेसु । केवलथावरविगले वेउठियदुर्ग न संभवइ ॥१॥” इति । तेन नरकत उत्पद्यमानानां जीवानां मनुष्यतिरश्चां विभङ्गज्ञानं न भवतीति सिद्धयति ।। अन्ये पुनराहुः-अप्रतिपतितविभङ्गज्ञानो जीवो नरकतोऽन्यत्राऽन्यतो वा नरके न समुत्पद्यत इति । कथमेतदवसीयते ? इति चेत् , उच्यते-पञ्चसंग्रहमूलटोकाकारेण कार्मणकाययोगं विवर्णयता विभङ्गज्ञाने कार्मणकाययोगः प्रतिषिद्धः, तत्र हेतुस्तु विभङ्गज्ञानस्य तद्भविकत्वमिन्यु. पन्यस्तः । तथा च तद्ग्रन्थ:-xxxxचक्षुर्दर्शन-मनःपर्यायज्ञान-विभङ्गाहारकद्वारेषु न भवति, कथं ? विग्रहगतौ कार्म-गशरीरसद्भावात् तत्र चक्षुर्दर्शनाभागत् । यद्यपि लब्धिमङ्गीकृत्य तद्विद्यते, तथापि न तदाद्रियते यतो लळ्यपर्याप्रकानामुग्योगवयमेवोतम । मनःपर्यायज्ञानं तु सुमाधुषु भवति, तत्र तस्याऽसद्भाव एक, विभङ्गस्य तु तद्भविकत्वात् आदारककार्मणयोर्विरोधात् कार्मणशरीरं न भवति।" इति । - किश्च पञ्चसंग्रहमूलकारणोऽपि विभङ्गज्ञान एक एव पर्याप्तजीवभेदो दर्शितः । तथा च तदग्रन्थ:-"एक मणनाणकेवलं विभङ्गो" इति । तदेवं सिद्धयति-अपर्याप्ता-ऽवस्थायां मनःपर्यायकेवलज्ञानवद् विभङ्गज्ञानमपि न भवतीति । ततश्च सप्तमनरकपृथिव्यामपर्याप्ता-ऽवस्थाप्रथमा ऽन्तमहतं व्यतिक्रम्य जीवो विभङ्गज्ञानी भवति, स च विभङ्गज्ञानमाभवं परिपालयति । इत्थमन्तमुहूतैन्यूनत्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टकायस्थितिरन्येषां मतेन संभवति, नारकतदितरलक्षणभवद्वयस्थाऽपर्याप्तावस्थायां विभङ्गज्ञानाभावात् । यत्पुनः पञ्चसंग्रहमूलवृत्तिकृता उपयोगद्वारेऽ. नाहारकमिथ्यादृष्टेभिङ्गज्ञानं दर्शितम् , तथा तद्ग्रन्थ 'अनाहारकस्य मिथ्यादृषेश्चत्वारस्त्रयः प्रागवत् , विभङ्गः कालमौकर्यस्येव ।" इति । विभङ्गज्ञाने च कामणकाययोगो निषिद्धो योगद्वारे । तत्कि वृत्ति कृता मतद्वयसंग्रहार्थ द्वारान्तरे भिन्नमुक्तम् , उताऽभिप्रायान्तरेण, तचं केवलिनो बहुश्रुता वा विदन्ति । क्षायिकसम्यक्त्वस्योत्कृष्टकायस्थितिस्तु त्रयस्त्रिंशत्सागरोपमाणि किश्चिन्यूनमनुष्या-यभवत धिकानि द्रष्टव्या । भावना वित्थम्-कश्चित् चतुर्विंशतिमोहनीयसत्कर्मा सम्यग्दृष्टिर्मनुष्यः क्षायिकसम्यक्त्वं लब्धवान् , ततः संघमं प्रतिपद्य क्रमेण च स्वायुः परिपाल्या-ऽनुत्तरेषूलद्यते, ततोऽनुत्तरदेवतो मनुष्यत्वेन समुत्पद्यते । मनुष्यभवे स्वक्षपकणिप्रतिपत्तियोग्यजघन्यकालमात्र आयुष्के शेष क्षपकणिं प्रतिपद्यते, प्रतिपन्नश्च क्रमेण सयोगिकेवलिगुणस्थानकं प्राप्याऽयोगिकेवलिगुणस्थानकं लभते । तदेवं किश्चिन्यूनमनुष्यभवद्वयेनाधिकानि त्रयस्त्रिंशत्सागरोपमाणि कायस्थितिलभ्यते नन्वयोगिकेवलिगुणस्थानकप्राप्तौ सत्यामप्ययोगिकेवलिनां सिद्धानां च क्षायिकसम्यक्त्वस्याऽविनाशात् क्षायिकसम्यकत्वमार्गणाया उत्कृष्टकायस्थितिः साधनन्तकालो लभ्यत इति, तत्कथं सातिरेकत्रयस्त्रिंशत्सागरोपमकाल उच्यते ? इति चेत् , भण्यते, मा त्वरिष्ठाः, इयं कायस्थितिः प्रकृतिबन्धमाश्रित्य प्रोक्ता, प्रकृतिबन्धश्च सयोगिकालिगुणस्थानकाज़ न भवति । अअन्धकमाश्रित्य
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy