SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ कायस्थितिप्रकरणम् [विभङ्गज्ञानस्योत्कृष्टकायस्थितिः श्रीप्रज्ञापनासूत्रम्-"कण्हलेसे णं भंते । कण्हलेसे त्ति कालतो केवचिरं होइ ? गो ? जह० अंतो० उक्को० तेत्तीसं सागरोवमाइं अंतोमुहूत्तमब्भहियाई । xxx सुक्कलेसे णं पुच्छा०, गो० । जह० अंतो०, उक्को० तेत्तीसं सागरोवमाइंअंतोमुहूत्तमब्भहियाइं।" इति । भावना त्वित्थं कार्या-कश्चिद् मनुष्यस्तिर्यड् वाऽन्तमुहृतं कृष्णलेश्यया परिणतो जीवः सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थितिकनारकत्वेनोत्पन्नः, स स्वायुः परिपाल्य नारकस्तियक्षत्पद्यते, तत्र प्रथमाऽन्तर्मुहूर्त कृष्णलेश्याकत्वेन तिष्ठति । ततो लेश्यान्तरं लभते । इत्थं पूर्वोत्तरभवगतमन्तमुहर्तद्वयं नारकाणां चाऽवस्थितलेश्याकत्वाद् नारकभवस्य त्रयस्त्रिंशत्सागरोपमाणि, अन्तर्मुहूर्तकालस्य त्वसंख्येयभेदभिन्नत्वेनाऽन्तमुहूर्तद्वयस्याऽप्यन्तर्मुहूर्तत्वाद् अन्तर्मुहूर्ताभ्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि कृष्णलेश्याया उत्कृष्टकायस्थितिः। शुक्ललेश्याया उत्कृष्टकायस्थितिरन्तमुहूर्ताभ्यधिकत्रयस्त्रिंशत्सागरोपमाण्यनुत्तरसुरमाश्रित्य भावनीया, अनुत्तरसुराणां शुक्ललेश्याकत्वात् तेषां चोत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमस्थितिकत्वात् । विभङ्गज्ञानस्योत्कृष्टकायस्थिति.रयिकाणामुत्कृष्टभवस्थितिप्राधान्येन त्रयस्त्रिंशत्सागरोपमाणि भणिता,किन्तु तत्तन्मतानुसारेण यथागमं विबुधजनहींनाऽधिका परिभावनीया । तथाहि-प्रज्ञापनासूत्रकारमतेन देशोनपूर्वकोटिवर्षाधिकत्रयस्त्रिंशत्सागरोपमाणि विभङ्गज्ञानस्योकृत्ष्टकास्थितिः । अक्षराणि त्वेवम्-"विभंगणाणी णं भंते । पुच्छा, गो । जहण्णेणं एगं समयं उक्कोसेणं तेत्तीसं सागरो. वमाई देसूणाते पुवकोडीते भब्भहिताइ ॥” इति । भावना वित्थं कार्या-कश्चिन्मिथ्यादृष्टिर्मनुष्यस्तिर्यङ्वा पूर्वकोटयायुष्कः कतिपयवर्षातिक्रमे विभङ्गज्ञानी बायते, जातश्चा-ऽप्रतिपतितविभङ्गज्ञान एवाऽविग्रहगत्या सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थितिकनैरयिकत्वेनोत्पद्यते, तदा भवति यथोक्तमुत्कृष्टं मानम् । तत ऊवं तु सम्यक्त्वलाभेना-ऽवधिज्ञानोत्पत्तितः सर्वथा वाऽपगमात् तद्विभङ्गज्ञानं व्यवच्छिद्यते।। इदमत्राऽवधेयम- प्रज्ञापनाव सकाराभिप्रायेणा-ऽप्रतिपतितविभङ्गज्ञाना जीवा मनुष्यतिर्यश्चः सप्तमपृथविनारकेषु संजायन्ते , नारकाः पुनस्तिर्यसूत्पद्यन्त इति । नन्वे तर्हि विभङ्गज्ञानस्य कायस्थितिः किश्चिन्यूनपूर्वकोटिद्वयाधिकत्रयस्त्रिंशत्सारोपमप्रमाणा स्यात् ? इति चेत्, न, देशोनपूर्वकोटथधिकत्रयस्त्रिंशत्सागरोपमत ऊर्ध्वमवश्यं सम्यक्त्वप्राप्त्या सर्वथा वाऽपगमेन विभङ्गज्ञानाभावात् । व्याख्याप्रज्ञप्तिसूत्राऽभिप्रायेण तु स्वभवपरित्यागकाले नारको विभङ्गज्ञानं जहाति। कथमेतदवसीयते ? इति चेत् , उच्यते-विभङ्गज्ञानी नारको नोद्वर्ततेन परिच्यवते, यदुक्तं व्याख्याप्रज्ञप्तौ-"विभंगनाणी ण उववटुंति ।" इति । किश्च पञ्चसंग्रहादिकारैर्विभङ्गज्ञान औदारिकमिश्रकाययोगो निषिद्धः, यदुक्तं पञ्चसंग्रहे
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy