SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ कायस्थितिप्रकरणम् प्रणम्य जिनं पार्श्वेशं, पार्श्ववक्षसेवितम् । ध्यात्वा श्रीप्रेमसूरीशं, कायस्थितिं विवर्णये ॥ १ ॥ इह खलु दुरन्त संसारकाननमुल्लङ्घयितुकामानां भव्यानां संबोधाय नरकगत्यादिचतुःसप्तत्युत्तरशतमार्गणानां कार्यस्थितिं प्राह काठ कोसा णिरयसुराणं विभंगणाणस्स । किण्हसुइलखइयाणं तेत्तीसा सागरा णेया ॥१॥ (प्रे०) 'कायटिई' इत्यादि, 'काय स्थितिः' काय इह पर्यायः परिगृह्यते, काय इव काय इत्युपमानात् । स च द्विविधः, सामान्यरूपो विशेषरूपश्चेति तत्र सामान्यरूपो निर्विशेषणो जीवस्वलक्षणः, विशेषरूपस्तु नैरयिकत्वादिलक्षणः । तस्य स्थितिः = अवस्थानं कार्यस्थितिः । सामान्यरूपेण विशेषरूपेण वा पर्यायेणाऽऽदिष्टस्य जीवस्य याऽव्यवच्छेदेन वृत्तिः, सा कायस्थितिरित्यर्थः, यथा जीवत्वरूपेण सामान्यपर्यायेण नैरयिकत्वकृष्णलेश्यादिरूपविशेषपर्यायेण वाऽऽदिष्टस्य जीवस्य याऽव्यवच्छेदेन वृत्तिः सर्वाद्वालक्षणा त्रयस्त्रिंशत्सागरोपमादिरूपा च सा कार्यस्थितिः, यतो जीवो न कदाचिदपि जीवत्व पर्यायं जहाति, मुक्तावस्थायामपि ज्ञानादिभावप्राणसद्भावेन जीवत्वोपपत्तेः । नैरयिकत्वकृष्णादिलेश्यापर्यायं तु त्रयस्त्रिंशत्सागरोपमादिप्रमाणकालमनुभूय जहाति । सा च कार्यस्थितिर्द्विधा जघन्योत्कृष्टभेदात् । तत्र नैरथिकत्वादिपर्यायाऽऽदिष्टस्य जीवस्या व्यवच्छेदेनोत्कृष्टतस्तत्तत्पर्यायेणऽवस्थानम् उत्कृष्टा कायस्थितिः, नैरयिकत्वादिपर्यायाssदिष्टस्य जीवस्या - Soयवच्छेदेन जघन्यतस्तत्तत्पर्यायेणाऽवस्थानं जघन्यकायस्थितिः । इहादौ तावदेकजीवमाश्रित्योत्कृष्टकायस्थितिं निरूपयितुकामो नरकगत्यादिमार्गणाः संगृह्य प्राह - 'उक्कोस्सा' इत्यादि, उत्कृष्टा 'सुरनिरयोः ' सुरस्य = देवगतेः, निरयस्य = नरकगतेश्च 'विभङ्गज्ञानस्य' विभङ्गज्ञानमार्गणायाः 'कृष्णशुक्लक्षायिकाणां ' कृष्णलेश्या - शुक्ललेश्या - क्षायिकसम्यक्त्वलक्षणानां मार्गणानां सर्वसंख्यया षण्णां मार्गणानां 'त्रयस्त्रिंशत् ' त्रयस्त्रिंशत्संख्याकाः 'सागराः ' महच्चसाम्यात् सागरोपमाः 'ज्ञेया' बोद्धव्या । इयमत्र भावना - नारकास्तथास्वाभाव्यात् स्वकीयभवाच्च्युत्वा तदनन्तरं न पुननरकवेन समुत्पद्यन्ते तस्मात् कारणात् सप्तमपृथिवीनारकाणां चोत्कृष्टायुष्कस्य त्रयस्त्रिंशत्सागरोममात्रत्वादुत्कृष्टकाय स्थितिरपि तावन्मात्र्येव भवति, उक्तं चाssर्यश्यामपादैः प्रज्ञापनासूत्रे - "नेरइए णं भंते । नेरइए त्ति कालओ केचिचरं होइ ? गोयमा ! जहन्नेणं दसवाससहस्साइं उक्को सेणं तेत्तीसं सागरोवमाई ।” इति । एवमेकजीवमाश्रित्य देवगतेरपि त्रयस्त्रिंशत् सागरोपमाण्युत्कृष्टकायस्थितिर्निश्चेतव्या, देवभवतश्च्युस्वाऽनन्तरभवे देवत्वेनानुत्पादाद् अनुत्तरसुरस्य चोत्कृष्टत स्त्रयस्त्रिंशत्सागरोपमस्थितिकायुष्कत्वात् । कृष्णलेश्या -शुक्ललेश्ययोरुत्कृष्ट काय स्थितिर्यथासंख्यं नारकत्रिदशौ समाश्रित्य सामान्येन त्रयस्त्रिशत्सागरोपमाणि, विशेषतः पुनरन्तर्मुहूर्ताभ्याधिकानि, प्रज्ञापनादिसूत्रेषु तथोक्तत्वात्, तथा चात्र
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy