________________
लान्तकप्रभृतिषु प्रतिप्रस्तटमुत्कृष्टकाय स्थितिः ] काय स्थितिप्रकरणम्
[ १७
सागरोपमस्य षड्भागैरधिकान्यष्टौ (८३) सागरोपमाणि, चतुर्थे नत्र ( ९ ) सागरोपमाणि, पञ्चमे नव सागरोपमाणि त्रयश्च सागरोपमस्य षड्भागाः (९३), षष्ठे च दश (१०) सागरोपमाणि ।
• अतः परं लान्तकप्रभृतिकल्पसुराणां प्रतिप्रस्तटमुत्कृष्टकाय स्थितिं ज्ञातु ं वक्ष्यमाणं करणमुपयोजनीयम् - पूर्वपूर्वकल्पस्योत्कृष्टकायस्थितिरुत्तरोत्तरकल्पकायस्थितितो विशोध्येत, विशोधने च कृते यल्लभ्यते, तद् उत्तरकल्प प्रस्तटैर्विभज्यते, विभक्ते च सति यल्लभ्यते, तद् इच्छया = यति संख्ये प्रस्तट उत्कृष्टकायस्थितिर्ज्ञातुमिष्यते, तत्संख्यया गुण्यते । गुणिते च यल्लभ्यते, तत् पूर्वकल्पोत्कृष्टकायस्थित्यासहितमिष्टप्रस्तटे देवानामुत्कृष्ट काय स्थितिर्भवति । अनेन करणेन लान्तकस्य प्रथम प्रस्तटे सुराणामुत्कृष्ट काय स्थितिर्दश सागरोपमाणि चत्वारश्च सागरोपमस्य पञ्चभागाः (१०३), द्वितीयप्रस्तटे त्रिभिः सागरोपमस्य पञ्चभागैरैरधिकानि एकादश (११३) सागरोपमाणि, तृतीये द्वाभ्यां सागरोपमस्य पञ्चभागाभ्यामधिकानि द्वादश (१२३) सागरोपमाणि, चतुर्थे त्रयोदशसागरोपमाण्येकश्च सागरोपमस्य पञ्चभागः (१३३), पञ्चमे च सम्पूर्णानि चतुर्दश (१४) सागरोपमाणि ।
तथा महाशु प्रथमप्रस्तटे सुराणामुत्कृष्टकाय स्थितिश्चतुर्दश सागरोपमाणि त्रयश्च सागरोपमस्य चतुर्भागाः (१४३), द्वितीयप्रस्तटे पञ्चदश सागरोपमाणि द्वौ च सागरोपमस्य चतुर्भागौ (१५), तृतीयप्रस्तटे षोडश सागरोपमाण्येकेन सागरोपमस्य चतुर्भागेनाधिकानि (१६४), चतुर्थप्रस्तटे सम्पूर्णानि सप्तदश (१७) सागरोपमाणि ।
तथा सहस्रारे प्रथमप्रस्तटे सुराणामुत्कृष्टकाय स्थितिः सप्तदश सागरोपमाण्येकश्च सागरोपमस्य चतुर्भागः (१७३), द्वितीयप्रस्तटे सप्तदश सागरोपमाणि द्वौ च सागरोपमस्य चतुभांगौ (१७३), तृतीयप्रस्तटे सप्तदश सागरोपमाणि त्रयश्च सागरोपमस्य चतुर्भागाः (१७३), चतुर्थे चाऽष्टादश (१८) सागरोपमाणि परिपूर्णानि ।
तथा - Sऽनतकल्पस्य प्रथमप्रस्तटे सुराणामुत्कृष्टकाय स्थितिरष्टादशसागरोपमाण्येकश्च सागरोपमस्य चतुर्भागः (१८३), द्वितीय प्रस्तटे ऽष्टादश सागरोपमाणि द्वौ च सागरोपमस्य चतुर्भागौ (१८३), तृतीये त्रिभिः सागरोपमस्य चतुर्भागैरधिकान्यष्टादश (१८) सागरोपमाणि, चतुर्थ एकोनविंशतिः (१९) सागरोपमाणि परिपूर्णानि ।
तथा प्राणतकल्पस्य प्रथम प्रस्तट एकोनविंशतिसागरोपमाण्येकश्च सागरोपमस्य चतुर्भागः ( १९४), द्वितीय स्तटे द्वाभ्यां सागरोपमस्य चतुर्भागाभ्यामधिकान्ये कोनविंशतिसागरोपमाणि, ( १९३) तृतीयप्रस्तटे त्रिभिः सागरोपमस्य चतुर्भागैरधिकान्येकोनविंशतिसागरोपमाणि (१९३३), चतुर्थप्रस्तटे विंशतिः (२०) सागरोपमाणि परिपूर्णानि ।
तथा - SSरणकल्पस्य प्रथम प्रस्तटे विंशतिः सागरोपमाण्येकच सागरोपमस्य चतुर्भागः (२०), द्वितीयप्रस्तटे द्वाभ्यां सागरोपमस्य चतुर्भागाभ्यामधिकानि विंशतिसागरोपमाणि (२०)