________________
१८ ]
काय स्थितिप्रकरणम्
[ बादरै केन्द्रियादीनामुत्कृष्टकाय स्थितिः तृतीयप्रस्तटे त्रिभिः सागरोपमस्य चतुर्भागैरधिकानि विंशतिसागरोपमाणि ( २० ) । चतुर्थप्रस्तटे चैकविंशतिः (२१) सागरोपमाणि परिपूर्णानि ।
तथाऽच्युतकल्पस्य प्रथमप्रस्तट एकविंशतिः सागरोपमाण्येकश्च सागरोपमस्य चतुर्भागः, द्वितीयस्तर एकविंशतिसागरोपमाणि द्वौ च सागरोपमस्य चतुर्भागौ (२१३), तृतीयप्रस्तट एकविंशतिसागरोपमाणि त्रयश्च सागरोपमस्य चतुर्भागाः (२१), चतुर्थप्रस्तटे च द्वाविंशतिः (२२) सागरोपमाणि ।
नव ग्रैवेयकेषु प्रत्येकमेक एव प्रस्तटो भवति, तेन तत्र पूर्वोक्तैव त्रयोविंशतिसागरोपमादीनि क्रमेणोत्कृष्टकापस्थितिर्भवति ।
पञ्चानुत्तराणां तु सम्मुदितानामेकप्रस्तटत्वात् तेषां सर्वेषामुत्कृष्टकायस्थितिस्त्रयस्त्रिंशत् (३३) सागरोपमाणि भवति । तदेवमभिहिता देवगतेरेकोनत्रिंशतो भेदानामेकजीवाश्रितोत्कृष्टकायस्थिति:, प्रसङ्गतश्च टीकायां सैव प्रतिप्रस्तटं निरूपिता ॥७,८,९ ॥
सम्प्रतीन्द्रियमार्गणाया भेदप्रभेदानामुत्कृष्टकाय स्थितिर्निरूपणीया । तत्रैकन्द्रियसामान्यमार्ग णायाः प्रागभिहिता, तेन बादरै केन्द्रियमार्गणायाः सूक्ष्मैकेन्द्रियादीनां च तां वक्तुकामः समानवक्तव्यत्वादन्या अपि मार्गणाः संगृह्य आह
अंगुल असंखभागो बायरएगिंदियस्स सुहुमाणं । तह पुहवाइ उन्हं या लोगा असंखेजा ॥ १० ॥
(प्रे०) 'अंगुल०' इत्यादि, 'अड्गुला संख्यभागः' क्षेत्रतोऽङ्गुलस्याऽसंख्येयभागो 'बादरैकेन्द्रियस्य' बादरैकेन्द्रियमार्गणाया एकजीवाश्रितोत्कृष्ट कावस्थितिर्भवति । इदमत्र तात्पर्यम् - अड्गुलमात्रक्षेत्रस्याऽसंख्येयतमे भागे य आकाशप्रदेशाः तेषां प्रतिसमयमेकैकप्रदेशा- पाहा रे क्रियमाणे यावत्यो-ऽसंख्येया उत्सर्पिण्यवसर्पिण्यो व्यतिक्रामन्ति, उत्कृष्टतस्तावतीरुत्सर्पिण्य वसर्पिणीर्यावद् बादरनामकर्मोदयवर्ती एकेन्द्रियजीवः पुनः पुनर्बादरैकन्द्रियत्वेनोत्पद्यमानोऽवतिष्ठते, ततः परं तद्भावं परित्यज्य भावान्तरं भजते । न चाऽङ्गुला - ऽसंख्येयतमभागस्य प्रतिसमय मे कैक प्रदेशा-पहारे-ऽसंख्येया उत्सर्पिण्यवसर्पिण्यः कुतो व्यतिक्रामन्तीति वाच्यम्, क्षेत्रस्य सूक्ष्मत्वात् उक्तं च "सुहुमो य होइ कालो तत्तो सुहुमयरयं हवइ वित्तं" इत्यादि । न चैतावत्युत्कृष्टकायस्थितिर्नादरैकेन्द्रियमार्गणायाः स्वमनीषिकयाऽभिहिता, श्रीजीवसमासादावभिहितत्वात् तथा चात्र जीवसमास:-‘“अंगुलअसंखभागो बादर एगिंदियतरूण" इति । तदवचूरि :- तथांगुला संख्येयभागप्रदेशापहरणकालं यावद् बादरै केन्द्रियस्तरुपर्यवसान तद्भावमपरित्यजन्तास्ते असंख्येया उत्सर्पिण्यवसर्पिण्य इत्युक्त भवति ।
,
,