SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १६ ] कायस्थितिप्रकरणम् [ सनत्कुमारमाहेन्द्रब्रह्मलोकेषु प्रतिप्रस्तटमुत्कृष्टकायस्थितिः ___अथ सौधर्मेशानयोर्दैवीनामुत्कृष्टकायस्थितिरभिधीयते,शेषकल्पेषु देवीनामुत्पत्यभावात् । देव्यः खलु द्विविधाः परिगृहीता अपरिगृहीताश्चेति । तत्र कुलभार्यादेश्याः परिगृहीताः,गणिकासमानाश्चेतराः। सौधर्म परिगृहीतानां देवीनामुत्कृष्टकायस्थितिरेकजीवाश्रिता सप्त (७)पल्योपमानि, अपरिगृहीतानां च पञ्चाशत् (५०)पल्योपमानि। ऐशानकल्पे परिगृहीतानां नव (९) पन्योपमानि,अपरिगृहीतानां च देवीनां पञ्चपञ्चाशत् (५५) पल्योपमानि, यत उत्कृष्टभवस्थितिस्तावन्मात्री, उक्तं च श्रीप्रज्ञापनासत्रे- सोहम्मे कप्पे परिग्गहियाण देवीण पुच्छा,गोयमा ! जहन्नेणं पलिओवमं उक्कोसेणं सत्त पलिओवमाइं । xxxxx सोहम्मे कप्पे अपरिग्गहियाणं देवीणं पुच्छा गोयमा! जहन्नेणं पलिओवमं उक्कोसेणं पन्नासं पलिओवमाई । xxxx ईसाणकप्पे परिग्गहियाणं देवीणं पुच्छा, गोयमा ! जहन्नेण साइरेगं पलिओवमं उक्कोसेणं नव पलिओवमाई| xxxx ईसाणे कप्पे अपरिग्गहियदेवीण पुच्छा, गोयमा ! जहन्नेण साइरेगं पलिओवमं उक्कोसेण पणपन्नाइपलिओवमाइ । इति । ___ सनत्कुमारप्रस्तटस्थसुराणामुत्कृष्टकायस्थितिं ज्ञातुमिदं करणम्-या सौधर्म उत्कृष्टा कायस्थितिः, सा सनत्कुमारदेवानामुत्कृष्टकायस्थितितो विशोधयितव्या, विशोधने च कृते यद् लभ्यते, तत् सनत्कुमारप्रस्तटैविभज्यते, विभक्ते च तस्मिन् यद् लभ्यते, तद् इच्छया यतिसंख्ये सनत्कुमार. प्रस्तट उत्कृष्टकायस्थितिओतुमिष्यते, तत्संख्यया गुणयितव्यम् , गुणिते च यद् लभ्यते, तत् सौधर्मदेवोत्कृष्टकायस्थित्या सहितं तत्तत्प्रस्तटे सनत्कुमारसुराणामुत्कृष्टस्थितिर्भवति। अनेन करणेन सनत्कुमारस्य प्रथमप्रस्तटे सुराणामुत्कृष्टकायस्थिति। सागरोपमे पञ्च च सागरोपमस्य द्वादशभागाः (२१३), द्वितीये प्रस्तटे द्वे सागरोपमे दश च सागरोपमस्य द्वादशभागाः (२१३) तृतीये त्रीणि सागरोपमाणि त्रयश्च सागरोपमस्य द्वादशभागाः (३१३), चतुर्थे त्रीणि सागरोपमाण्यष्टौ च सागरोपमस्य द्वादशभागाः (३६), पञ्चमे चत्वारि सागरोपमाण्यकश्च सागरोपमस्य द्वादशभागः (४३), षष्ठे चत्वारि सागरोपमाणि षट् च सागरोपमस्य द्वादशभागाः(४१३), सप्तमे चत्वारि सागरोपमाण्येकादश च सागरोपमस्य द्वादशभागाः (४१३), अष्टमे पश्च सागरोपमाणि चत्वारश्च सागरोपमस्य द्वादशभागाः (५१३), नवमे पञ्च सागरोपमाणि नव च सागरोपमस्य द्वादशभागाः (५६३), दशमे द्वाभ्यां सागरोपमस्य द्वादशभागाभ्यामधिकानि षट् (६३) सागरोपमाणि, एकादशे सप्तभिः सागरोपमस्य द्वादशभागैरधिकानि षट् (६१) सागरोपमाणि, द्वादशे च परिपूर्णानि सप्त (७) सागरोपमाणि । एवं माहेन्द्र कल्पेऽपि प्रतिप्रस्तटमुत्कृष्टकायस्थितिर्वाच्या, नवरं किश्चित्समधिका वाच्या । ___ अथाऽनन्तरोक्तकरणेन ब्रह्मलोककल्पेऽपि प्रतिप्रस्तटमुत्कृष्टकायस्थितिः साध्या, नवरं सौधर्मस्थाने सनत्कुमारकल्पो वक्तव्यः, सनत्कुमारस्थाने च ब्रह्मलोको वक्तव्यः । अनेन करणेन या लभ्यते, सा सविस्तरमभिधीयते-ब्रह्मलोकस्य प्रथमप्रस्तट उत्कृष्टकायस्थितिः सप्त सागरोपमाणि त्रयश्चसागरोपमस्य षड्भागाः (१), द्वितीयप्रस्तटेऽष्टौ (८)सागरोपमाणि, तृतीये त्रीभिः
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy