________________
सौधर्मेशानयोः प्रतिप्रग्नटमुत्कृष्टकायस्थितिः ] कायस्थितिप्रकरणम् शभागौ (3 सा०), द्वितीयप्रस्तटस्थसुराणां चत्वारः सागरोपमस्य त्रयोदशभागाः ( सा०) भवति, एवं शेषप्रस्तटस्थसुराणामपि वक्तव्या, ऐशानादिकल्पानामपि तत्तत्प्रस्तटस्थानां देवानामुत्कृष्टा कायस्थितिर्भिन्ना भिन्ना वाच्या, न तु तत्तत्कन्पोक्ता । तथाहि-सौधर्मेंशानयोः समभूमिकयोरेकवलयाकारकतया त्रयोदश प्रस्तटाः । इह यद्यपि सौधर्म ऐशाने च कल्पे प्रत्येकं त्रयोदश प्रस्तटाः, तथापि सौधर्मेशानकल्पो एकवलयाकारतया व्यवस्थितौ इति तयोर्द्वयोः समुदितयोरपि त्रयोदश प्रस्तटाः, एवमग्रेऽपि सनत्कुमारमाहेन्द्रयोरानतप्राणतयोरारणाऽच्युतयोश्च प्रस्तटभावना कार्या। सनत्कुमारमाहेन्द्रयोदश प्रस्तटाः, ब्रह्मलोके षट् , लान्तके पश्च, महाशुक्रकल्पे चत्वारः, सहस्रारे चत्वारः, आनतप्राणतयोः समुदितयोश्चत्वारः, आरणाच्युतयोश्च समुदितयोश्चत्वारः । अवेयकेषु प्रत्येकमेकैकः प्रस्तटः, समुदितेषु पश्चा-ऽनुत्तरेष्वेकः प्रस्तटः । तदेवं सर्वसंख्यया द्वाषष्टिः प्रस्तटा भवन्ति, यदुक्तं वृहत्संग्रहण्यां जिनभद्रगणिक्षमाश्रमणपादःदुसु तेरस दुसु बारस छप्पण चउ चउ दुगे दुगेय चऊ । गेविज्जाइसु दसगं बावट्ठीं उढलोगम्मि ||१||"इति।
सत्र सौधर्मकल्पतत्तत्प्रस्तटे सुराणामुत्कृष्टकायस्थितिपरिज्ञानायेदं करणम्-सौधर्मकल्पसुरस्यो. स्कृष्टकायस्थितिः सांगरोपमद्वयमिता त्रयोदशप्रस्तटैविभज्यते, तदा यद् लभ्यते, तत् , इच्छया= यतिसंख्यप्रम्तटस्थसराणामुत्कृष्टकायस्थितिआतुमिष्यते तत्संख्ययकद्वयादिरूपया गुण्यते, गुणिते घेष्टप्रस्तटस्थसुराणामुन्कृष्टा कायस्थितिलभ्यत इति । अनेन करणेन सौधर्मकल्पे प्रथमप्रस्तटे सुराणामुत्कृष्टकायस्थितिद्वौं सागरोपमस्य त्रयोदशभागौ (१३), द्वितीयप्रस्तटसुराणां चत्वारः सागरोपमस्य त्रयोदशभागाः (1), तृतीयप्रस्तटे षट् सागरोपमस्य त्रयोदशभागाः (१), चतुर्थप्रस्तटे देवानामष्ट सागरोपमस्य त्रयोदशभागाः (5), पञ्चमप्रस्तटे दश सागरोपमस्य त्रयोदशभागाः (१), षष्ठप्रस्तटे द्वादश सागरोपमस्य त्रयोदशभागाः (73), सप्तम एकं सागरोपममेकश्च सागरोपमस्य त्रयोदशभागः (११), अष्टमे सागरोपमं त्रयश्च सागरोपमस्य त्रयोदशभागाः (१३३) नवमे पञ्चभिः सागरोपमस्य त्रयोदशभागैरधिकमेकं (१,३), सागरोपमम् ,दशमे सप्तभिः सागरोपमस्य त्रयोदशभागैरधिकमेकं (१७) सागरोपमम् , एकादशे नवभिः सागरोपमस्य त्रयोदशभागरधिकमेकं (१,७) सागरोपमम् , द्वादशे प्रस्तट एकादशभिः सागरोपमस्य त्रयोदशभागैरधिकमेकं (११३) सागरोपमम् , त्रयोदशे द्वे (२) सागरोपमे परिपूर्णे । कथमेतदवसीयते ? इति चेत् , उच्यते-देवानामनन्तरभवे देवत्वेनाऽनुत्पादादुत्कृष्टभवस्थितिरेवोत्कृष्टकायस्थितिः, भवस्थितिश्चैतावती बृहत्संग्रहण्यादौ समर्थिता पूज्यवरैः । तथा चाऽत्र धृहत्संग्रहणी"पलिओवमं जहन्ना दो तेरसभागा उदहिनामस्स । उक्कोसठिई भणिया सोहम्मे पत्थडे पढमे ॥१॥ एव दुगवुड्ढीए नेभव्वं जाव अंतिमं पयरं । भागेहि तमो करणं जा तेरसमे दुवे भयरा ॥२॥"इति ।
एवमैशानकल्पप्रस्तटेष्वप्येकजीवाश्रयोत्कृष्टकायस्थितिर्वाच्या, नवरं किश्चित्समधिका प्रतिपाद्या, तेषां भवस्थितेः समधिकत्वात् ।
२ब