________________
१४ ]
काय स्थितिप्रकरणम्
[ मैवेयकादीनामुत्कृष्टकार्यस्थितिः सागरोपमाः 'ज्ञातव्या' यत्तदोर्मिथः सापेक्षत्वादुत्तरत्र यावच्छब्दोपादानात् तावद् एकजीवाश्रयोत्कृष्टकाय स्थितिर्योध्या, यावद् 'एकत्रिंशदुदधयः' एकत्रिंशत्सागरोपमाणि 'उपरितनग्रैवेयकस्य' सर्वेषामुपरि स्थितस्य नवमस्याऽऽदित्याख्यस्य ग्रैवेयकसुरस्योत्कृष्टकाय स्थितिः । अयं भावः - महाशुक्रसुराsपेक्षया सहस्रारसुरस्यैकेन सागरोपमेणा - ऽधिकानि सप्तदश सागरोपमाण्यष्टादश सागरोपमाणीत्यर्थः, एकजीवाश्रयोत्कृष्ट काय स्थितिर्भवति, अनया रीत्या - ऽऽनतदेवस्यैकोनविंशतिः ( १९ ) सागरो - पमाणि, प्राणतत्रिदशस्य विंशतिः (२०) सागरोपमाणि, आरणसुपर्वण एकविंशतिः (२१), अच्युता-मरस्य द्वाविंशतिः (२२) । सुदर्शनाख्य- प्रथमग्रैवेयकसुरस्य त्रयोविंशतिः (२३), सुप्रतिबद्धा ऽभिधानद्वितीय ग्रैवेयक देवस्य चतुर्विंशतिः (२४), मनोरमनामतृतीय ग्रैवेयकसुपर्वणः पञ्चविंशतिः (२५), सर्वभद्राख्यचतुर्थग्रैवेयकदेवस्य षड्विंशतिः (२६), विशालाख्यपञ्चम ग्रैवेयकविबुधस्य सप्तविंशतिः (२७), सुमनसाऽभिधषष्ठग्रैवेयक त्रिदशस्या -ऽष्टाविंशतिः ( २८ ) सौमनसाख्य सप्तमग्रैवेयकसुरस्यैकोनत्रिंशत् (२९), प्रीतिकरनामाऽष्टमग्रैवेयकसुरस्य त्रिंशत् (३०), आदित्या ऽभिधाननवमग्रैवेयकगीर्वाणस्य चैकत्रिंशत् (३१) सागरोपमाणि, यतो देवानामानन्तरभवे देवत्वेना- ऽनुत्पादाद् भवस्थितिरेव काय स्थितिर्भवति । भवस्थितिचैतावती बृहत्संग्रहण्यां श्रीमज्जिन भद्रगणिक्षमाश्रमणपादैरभिहिता - "सोहम्मा जा सुक्को तदुवरि इक्किकमारोवे ।" इति ।
1
अथाऽनुत्तराणां प्रस्तुतकाय स्थिति भणति - 'तेत्तीसा' इत्यादि, 'अनुत्तराणां' बहुवचननिर्देशात् पञ्चानामनुत्तरसुराणां= विजय - वैजयन्त जयन्ता ऽपराजित- सर्वार्थसिद्धसुराणां प्रत्येकमेकजीवाश्रयोत्कृष्टकायस्थितिः 'त्रयस्त्रिंशत् ' 'भयरा' इत्यनुवर्तते, त्रयस्त्रिंश त्सागरोपमाणि भवति, भवस्थितेस्तावन्मात्रत्वात् । उत्कृष्टभवस्थितिश्च श्रीप्रज्ञापनादिसूत्रेषु यथोक्तप्रमाणा समर्थिता आर्यश्यामपादादिभिः । तथा चात्र श्रीप्रज्ञापनासूत्रम्- “विजय-वे जयंत जयंत अपराजितेसु ण भंते! देवा ण' केवइयं कालं ठिई पन्नता ? गोयमा ! जत्रेण एकतीसं सागरोवमाई, उक्कोसेण तेत्तीसं सागरोमाई। सब्वट्टसिद्धगदेवाणां भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! अजहन्नमणुक्कोसं तेत्तीस सागरोबमाइ ं ठिई पन्नत्ता।” इति । गाथोक्तस्तुशब्दो ऽधिकार्थ संसूचकः, स चात्र तत्त्वार्थ सूत्र- तद्भाष्यकारादोन । मभिप्रायेणाऽऽद्यानां चतुर्णां विजयादिसुराणामुत्कृष्ट भवस्थितेर्द्वात्रिंशत्सागरोपमप्रमाणत्वाद् आद्यानां चतुर्णामनुत्तरसुराणां कार्यस्थितिरपि तत्त्वार्थ सूत्रकारादीनामभिप्रायेण ताव्रती वक्तव्येति संसूचयति । तथा चात्र श्रीतस्वार्थसूत्रम् - "भारणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ।” इति । तथैव तद्भाष्येऽप्युक्तम्- "विजयादिषु चतुर्ष्वप्येकेना-ऽधिका द्वात्रिंशत्, साप्येकेनाधिका सर्वार्थसिद्धे त्रयस्त्रिंशदिति । ” इति ।
अनन्तरोक्ता कायस्थितिः सामान्येन सौधर्मादिदेवानां बोध्या, विशेषतः पुनः सौधर्मकल्पेऽपि प्रथमप्रस्तटस्थसुराणामुत्कृष्टकायस्थितिर्द्वे सागरोपमे न भवति, किन्तु द्वौ सागरोपमस्य त्रयोद