SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्यादिदेवानामुत्कृष्टकास्थितिः ] कायस्थितिप्रकरणम् [ १३ _ 'पल्लं' इत्यादि, 'पल्य' पल्योपमं 'व्यन्तरसुरस्य' व्यन्तरदेवमार्गणाया 'विज्ञेया' एकजीवाश्रितोत्कृष्टकायस्थितिनिश्चेतव्या, देवानामनन्तरभवे देवत्वेना-ऽनुत्पादाद् व्यन्तराणाश्चोत्कृष्टभवस्थितेः पल्योपममात्रत्वात् । इदन्त्ववधेयम्-व्यन्तरदेवीनां तु भवस्थितिरर्धपल्योपमं भवति । तेन व्यन्तरीणां कायस्थितिरपि तावन्मात्री बोध्या । अथ ज्योतिष्कस्योत्कृष्टकायस्थिति दर्शयति-'पलि०' इत्यादि,तत्र'ज्योतिष्कस्य ज्योतिष्कसुरमार्गणायाः पल्योपममभ्यधिक लक्षवरिति व्याख्यानाद् गम्यते, ज्योतिष्काणामुत्कृष्टभवस्थितेस्तावन्मात्रत्वात् , तदुक्तं श्रीप्रज्ञापनासूत्रे-"जोइसियाणं देवाणं पुच्छा । गोयमा ! जहन्नेण पलिभोवमट्ठभागो, सक्कोसेण पलिओवमं वाससयसहस्सब्भहियं ।" इति । इयश्चोत्कृष्टकायस्थितियोतिष्केषु चन्द्रापेक्षया ज्ञातव्या, यतः सूर्यस्योत्कृष्टस्थितिवर्षसहस्रणाधिकं पन्योपमम् , ग्रहाणां पन्योपमम् , नक्षत्राणामर्धपल्योपमम् , तारकाणां च पल्योपमस्य चतुर्भागः,चन्द्रसूर्यग्रहदेवीनां चोत्कृष्टस्थितिर्देवापेक्षया-ऽर्धम् , नक्षत्रतारकदेवीनां तु साधिकमर्धम् । तथाचोक्तं बृहत्संग्रहण्याम्"पलियं पाससहस्सं आइच्चाणं ठिई वियाणिज्जा । पलिभं च सयसहस्सं चंदाण वि भाउयं जाण॥१॥ पनिओवमं गहाणं नक्खत्ताणं च जाण पलियद्धं । ताराण चउ जहन्नट्ठमो य देवीण विन्नेओ ॥२॥ पन्नाससहस्साइं पलियद्धं पंचवाससयमहियं । ससिरविगहदेवीण पलिभद्धं चउ जहन्नेणं ॥३॥ पलिभचउत्थं जहण्णुक्कोसं सविसेसं होड नक्खत्ते । तारट्ठभाग सविसेस जहण्णुक्कोसगं अहवा ॥४॥" इति। सम्प्रति वैमानिकदेवानामुत्कृष्टकायस्थितिमेकजीवविषयां वक्तुमनाः प्राह- 'सोहम्माईण' इत्यादि, सौधर्मादीनां सौधर्मप्रभृतिसप्तकल्पसुराणां'क्रमात्' क्रमेण अतरौ द्वौ'द्वौ सागरोपमौ साधिकौ। 'सप्त' "डमरूकमणिः"न्यायेन 'अयरा' इत्यस्य सर्वत्र सम्बन्धात् सप्तसंख्याकाः सागरोपमाः, 'अभ्यधिकाः सप्त' पन्योपमाऽसंख्येयभागाधिकसप्तसागरोपमाः, चकारः समुच्चयार्थो व्यवहितसम्बधश्च, सच सप्तदश चेत्युत्तरत्र योज्यः, । 'दश दशसंख्याकाः सागरोपमाः, चतुर्दश सागरोपमाः, सप्तदश च सागरोपमाः 'ज्ञेया' एकजीवाश्रितोत्कृष्टकास्थितिर्योध्या, देवानामनन्तरभवे देवत्वेनानुत्पादादुक्तसुराणां चोत्कृष्टभवस्थितेर्यथोक्तप्रमाणत्वात् । इदमुक्तं भवति-सौधर्मसुरस्य. द्वे (२) सागरोपमे उत्कृष्टा भवस्थितिः, ऐशानसुरस्य साधिके द्वे (२) सागरोपमे, सनत्कुमारदेवस्य सप्त (७) सागरोपमाणि, माहेन्द्रसुरस्य साधिकानि सप्त (७) सागरोपमाणि, - ब्रह्मलोकसुरस्य दश (१०) सागरोपमाणि, लान्तकदेवस्य चतुर्दश (१४) सागरोपमाणि, महाशुक्रदेवस्य च सप्तदश (१७) सागरोपमाणि, यदुक्तं जीवसमासे-“दो साहि सत्त साहिय दस चउदस सत्तरेवxxxx I" इति । देवानां च स्वभवप्रच्यवनादनन्तरभवे देवत्वेनानुत्पादादनन्तरोक्तोत्कृष्टभवस्थितिरेवैकजीवाश्रयोत्कृष्टकायस्थितिर्भवति । सम्प्रति सहस्रारादिसुराणां कायस्थितिप्रख्यापनाय प्राह-एत्तो' इत्यादि 'इतः' महाशुक्रदेवस्योत्कृष्टकायस्थितिभणनादूर्ध्वम् 'एकैकाऽधिकाः' 'एकैकेन सागरोपमेण अधिका=वृद्धाः
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy