SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १२] कायस्थितिप्रकरणम् ( देवगतितद्भदानामुत्कृष्टकास्थितिः सम्प्रति देवगतिमार्गणाया उत्तरभेदानामेकजीवाश्रयामुत्कृष्टकायस्थितिं वक्तुकामो गाथात्रयमाह भवणस्स साहियुदही पल्लं वंतरसुरस्स विण्णेया। पलिओवममब्भहिअं जोइमदेवस्स णायब्बा ॥७॥ सोहम्माईण कमा अयरा दो साहिया दुवे सत्त । अब्भहिया सत्त य दस चउदस सत्तरह णायव्वा ॥८॥ एत्तो एगेग-ऽहिया णायव्वा जाव एगतीसुदही। उवरिमगेविजस्स उ तेतीमा-ऽणुत्तराण भवे ॥९॥ (प्रे० ) 'भवणस्स' इत्यादि, 'भवनस्य' पदवाच्यार्थस्य पदैकदेशेनाऽप्यभिधानदर्शनाद् भवनपतिसुरस्य साधिकोदधिः' सातिरेकसागरोपमम् उत्कृष्टकायस्थितिरेकजीवाश्रया भवति । कथम् ? इति चेत् , उच्यते-देवाः पुनर्देवत्वेन नोत्पद्यन्ते, उक्तं च “नो देवो देवेसु उववजइ।" इति । तेन भवनपतिदेवानां यद् भवस्थितेः प्रमाणम् , तदेव कायस्थितेरपि, भवस्थितिश्च यथोक्तप्रमाणा । इदमत्रावधेयम्-इहोक्तकायस्थितिरुत्तरार्धाधिपतिवलीन्द्राख्या-ऽसुरकुमारतत्सामानिकदेवा. पेक्षया द्रष्टव्या । इदमुक्तं भवति-भवनपतयो दशविधाः, असुरकुमारा नागकुमाराः सुवर्णकुमारा विद्युत्कुमारा अग्निकुमारा द्विपकुमारा उदधिकुमारा दिक्कुमाराः पवनकुमाराः स्तनितकुमाराश्चेति । ते च प्रत्येकं द्विधा मेरोदक्षिणदिग्भागवर्तिन उत्तरदिग्भागवर्तिनश्चेति । तथा-ऽसुरकुमारवर्जानां नागकुमारादोनां नवानां दक्षिणदिग्भागवर्तिनामुत्कृष्टा भवस्थितिः सार्धपल्योपममात्री, तद्देवीनां त्वर्ध पन्योपमम् । उत्तरदिग्वर्तिनां पुनर्नागकुमारादीनामुत्कृष्टस्थितिर्देशोनपल्योपमद्वयम्, तद्देवीनां देशोनं पल्योपमं भवति । दक्षिणदिग्भाविनामसुरकुमाराणामिन्द्रश्चमरः, तस्योत्कृष्टस्थितिः सागरोपमं भवति, तद्देवीनां तु सार्धपल्योपमत्रयम् । उत्तरदिग्भाविनामसुरकुमाराणामिन्द्रो बलीन्द्रः तस्य तत्सामान्यदेवानां चोत्कृष्टस्थितिः सातिरेकसागरोपमप्रमाणा, तद्देवीनां तु त्वर्धपञ्चमपल्योपमानि, उक्तं च बृहत्संग्रहण्यां श्रीमजिनभद्रगणिक्षमाश्रमणैः"चमर बलि सारमहिलं सेसाण सुराण आउअं वुच्छं । दाहिणदिवड्ढपलिदो देसूणुत्तरिल्लाणं ॥१॥ अद्भुट्टअद्धपंचमपलिओवम असुरजुयलदेवीणं । सेसवणदेवयाण य देसूणद्धपलियमुक्कोसं ॥२॥" इति । एवं प्रज्ञापनासूत्रकारादिभिरप्युक्तम् । इह भवनपतिसुरस्योत्कृष्टकायस्थितेः प्रस्तुतत्वादुतरदिग्वर्तिनामसुरकुमाराणामिन्द्रं बलीन्द्रं तत्सामानिकदेवांश्चाभित्य सातिरेकसागरोपमं प्रकृतकायस्थितिर्वक्तव्या, उत्तरदिग्वय॑सुरकुमारेन्द्रतत्सामानिकदेवानामेव भवनपतिषु सर्वोत्कृष्ट भवस्थितिकन्वात् , देवानां चानन्तरभवे देवत्वेनाऽनुत्पादात् ।
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy