________________
मनोयोगादीनामुत्कृष्टकायस्थितिः ]
काय स्थितिप्रकरणम्
[-११
त्कृष्टतो - ऽन्तमुहूर्तादूर्ध्वं नियमेन तादृशग्रहणमोक्षत उपरमते, यदुक्तं श्रीप्रज्ञापनासूत्रे - "मणजोगी णं भंते ! मणजोगो त्ति कालतो० ? गो० ! ज० एक्कं समयं, उक्को० अतो० एवं वइजोगी वि।” इति । तदेवं मनोयोगसामान्यस्य वचनयोगसामान्यस्य चोत्कृष्टकाय स्थितेरन्तर्मुहूर्तत्वेन तद्वयायभूतानां सत्यादियोगानामन्तर्मुहूर्ततो ऽधिका कायस्थितिर्न संभवति, व्यापकं विना व्याप्यस्यादर्शनात् वह्निमृते धूमादर्शनवत् ।
इदमत्राऽवधेयम् - सत्यमनोयोगस्य काय स्थितिः स्वल्पा, ततोऽसत्यमनोयोगस्य संख्येयगुणा, ततः सत्यासत्यमनोयोगस्य संख्येयगुणा, ततोऽसत्यामृषमनोयोगस्य संख्येयगुणा, ततो मनोयोगसामान्यस्य विशेषाधिका । एवं पञ्चवचनयोगानामप्युत्कृष्ट काय स्थितेरल्पबहुत्वं वाच्यम् ।
औदारिकमिश्रकाययोगः करणा-ऽपर्याप्त जीवाना लब्ध्यपर्याप्तजीवानां च भवति । तत्र करणापर्याप्त जीवानामन्तर्मुहूर्तेन शरीरपर्याप्ति निष्पन्पौदारिककाययोगः सम्पद्यते, लब्ध्यपर्याप्तकजीवानां तूत्कृष्टतः काय स्थितिरप्यन्तर्मुहूर्त प्रमाणा श्रीप्रज्ञापनासूत्रे ऽभिहिता । तेनौदारिकमिश्रकाययोगस्योत्कृष्टैकजीवविषया कायस्थितिरन्तर्मुहूर्तप्रमाणा भवि
वैक्रियद्विकाहारकद्विकलक्षणेषु चतुषु' योगेषु प्रत्येकं मरणादिव्याघाताभावेऽपि तथास्वाभाव्यादुत्कर्षेणा-मुहूर्तादूर्ध्व जीवा नाऽवतिष्ठन्ते । तेन कायस्थितिर्यथोक्तप्रमाणैव लभ्यते ।
चतुष्कषायाणां क्रोधादीनां प्रत्येकमुत्कृष्टकायस्थितिरेक जीवाश्रिताऽन्तमुहूर्तमानैव भवति, उत्कर्षेणापि क्रोधादीनामेकैकस्योदयस्याऽन्तमुहूर्त भावित्वात् । इहोदयमाश्रित्यैव क्रोधादीनां कायस्थितिरुक्तप्रमाणा, अन्यथा सत्तामधिकृत्य सदैव क्रोधाद्युपलब्धेरनाद्यपर्यवसाना - ऽनादिसपर्यवसिता च स्यात् ।
सूक्ष्मसम्पराय मार्गणायाः श्रेणा एव लाभेन तस्या उत्कृष्टकायस्थितिरन्तमुहूर्तमेव, उक्तं च पञ्चसंग्रहे- 'समयाभ अ तमुहू अपुव्वकरणाउ जाव उवसंतो ।” इति ।
मिथ्यात्वतः क्षायोपशमिकसम्यक्त्वत औपशमिकसम्यक्त्वतो वाऽऽगतः सम्यमिध्यादृष्टिजवस्तद्भाव उत्कृष्टतोऽविच्छेदेना- ऽन्तमुहूर्त भवतिष्ठते, परतस्तथाजीव स्वाभाव्याद् मिथ्यात्वरूपं क्षायोपशमिकसम्यक्त्वलक्षणं वा भावान्तरं प्रतिपद्यते, उक्तं च श्रीप्रज्ञापनासूत्री - " सम्मामिच्छादि - ट्ठी पुच्छा, गो० ! जह० अ तो० उक्को० अतो० ।” इति । तेन मिश्रस्योत्कृष्टकाय स्थितिरेकवाश्रितान्तमुहूर्तमात्री समुपपद्यते ।
औपशमिकसम्यक्त्वयुत्कर्षतोऽन्तमुहूर्तमवतिष्ठते नीवः, परतो भावान्तरं भजते, तेनौपशमिकसम्यक्त्वमार्गणाया अन्तर्मुहूर्तमुत्कृष्टकाय स्थितिर्लभ्यते, यदुक्तं पञ्चसंग्रहे - "मीसुत्रसम मुहू" इति । तदेवं निगदिता तिर्यग्गतिभेदानामुत्कृष्टकायस्थितिः, तत्समानात्वाच्चाऽन्यासामपि मार्गणानाम् ॥५,६ ॥