SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ १०] कायस्थितिप्रकरणम् [ अपर्याप्तादिमागणानामुत्कृष्टकायस्थितिः रणशरीरवनस्पतिकाया--ऽपर्याप्तप्रत्येकशरीरवनस्पतिकाया-ऽपर्याप्तत्रसकायलक्षणानां विशतिसंख्यानां (२०) मार्गणाभेदानां प्रत्येकं 'समाप्तबादरनिगोदकायस्य' समाप्तस्य पर्याप्तस्य बादरनिगोद कायस्य चादरसाधारणशरीरवनस्पतिकायस्य 'पर्याप्तकसूक्ष्माणां' पर्याप्तसूक्ष्मैकेन्द्रिय-पर्याप्तसूक्ष्मपृथिवी. काय-पर्याप्तसूक्ष्माऽप्काय पर्याप्तसूक्ष्मतेजःकाय-पर्याप्तसूक्ष्मवायुकाय--पर्याप्तसूक्ष्मसाधारणशरीरवनस्पतिकायरूपाणां षड्मार्गणास्थानानां(६)प्रत्येकं 'पञ्चमनोवचऔदारिकमिश्राणां पञ्चशब्दस्य द्वाभ्यां सहाऽभिसम्बन्धात् पश्चमनसा-मनोयोगसामान्य-सत्यमनोयोगा- ऽसत्यमनोयोग-सत्यासत्यमनोयोगाऽसत्यामृषमनोयोगानां प्रत्येकम् , एवं पञ्चवचनयोगानां प्रत्येकम् , 'औदारिकमिश्रस्य' औदारिकमिश्रकाययोगस्य 'वैक्रियद्विकस्य' वैक्रियकाययोग-तन्मिश्रकाययोगाख्यस्य प्रत्येकं तथाशब्दः समुच्चये 'अहारकद्विकस्य' आहारककाययोगतन्मिश्रकाययोगरूपस्य प्रत्येकं 'चतुष्कषायाणां' क्रोधमानमायालोभलक्षणानां प्रत्येकं 'सूक्ष्मोपशममिश्राणां' पदैकदेशे पदसमुदायोपचारात् सूक्ष्मस्य सूक्ष्मसम्परायस्य उपशमस्य औपशमिकसम्यक्त्वस्य मिश्रस्य-सम्यमिथ्यात्वमार्गणायाश्च प्रत्येकं 'भिन्नमुहूर्तम्' अन्तमुहूर्त 'ज्ञातव्या' प्रस्तुतत्वादेकजीवाश्रितोत्कृष्टकायस्थितिः प्रतिपत्तव्या। "तत्र विंशतिसंख्याकाऽपर्याप्तमार्गणानां प्रत्येकमुत्कृष्टतो-ऽपि कायस्थितिरेकजीवविषया-ऽन्तमुहूर्तमेव भवति, यतो व्यापकभूतस्या-ऽपर्याप्तसामान्यस्याऽपि नानाभवैलभ्यमानोत्कृष्टकायस्थितिरन्तर्मुहूर्तप्रमाणा, यदुक्तं श्रीप्रज्ञापनासूत्रे-"अपजत्तए णं भंते ! अपज्जत्तए त्ति कालतो केवचिरं होइ ? गोयमा ! जहन्नेणं अतोमुत्तं उक्कोसेण वि अंतोमुहुत्तं ।" इति । तेन व्याप्यभूतापर्याप्तपञ्चेन्द्रियतिर्यगादीनामन्तर्मुहूर्ततोऽधिका कायस्थितिर्न संभवति । पर्याप्तवादरनिगोदत्वपर्यायविशिष्टोऽविच्छेदेनोत्कृष्टतो नानाभवैरप्यन्तमुहुर्तकालमवतिष्ठते, परतो नियमेन पर्यायान्तरं भजते, तेन पर्याप्तवादरनिगोदस्यकजीवाश्रयोत्कृष्टकायस्थितिरन्तर्मुहूर्तप्रमाणा लभ्यते, यदुक्तं श्रीप्रज्ञापनासून्ने-"निगोयपज्जत्तते बादरनिगोदपज्जत्तते, बादरनिगोदपज्ज. त्तए पुच्छा, गो० । दोण्ह वि० ज० अन्तो० उक्को अतो।" इति । . यद्यपि निर्विशेषणानां सूक्ष्मपृथिवीकायादीनामेकैकस्योत्कृष्टकायस्थितिरसंख्येयलोका वक्ष्यते, तथापि पर्याप्तत्वविशेषणविशिष्टानां सूक्ष्मकायिकानां पर्याप्तसूक्ष्मैकेन्द्रियपर्याप्तसूक्ष्मपृथिवीकायादिलक्षणानां षण्णां प्रत्येकं नानाभवैरुत्कृष्टकायस्थितिरन्तमुहूर्तमेव भवति, परतो-ऽवश्यं तदन्यत्वेनो. त्पादात्, यदुक्तं श्रीप्रज्ञापनासूत्रे-"सुहुमे णं भंते ! अपज्जत्तए त्ति पुच्छा, गो० ज० उ० अतोमुहुत्तं, पुढविकाइय-आउकाय-तेउकाय-वाउकाय-वणप्फइकाइयाण य एवं चेव,पज्जत्तियाण वि एवं चेवxxx।" इति । अत्र 'पर्याप्तानामप्येवं चैव' इति कथनेन पर्याप्तसूक्ष्माणां पर्याप्तसूक्ष्मपृथिवीकायादीनां च ग्रहणम् । मनोयोगसामान्यस्य वचनयोगसामान्यस्य चोत्कृष्टतो.ऽप्यन्तमुहूर्तमेवोत्कृष्टकायस्थितिः, यतस्तथाजीवस्वाभाव्यादेव मनोयोग्यवर्गणागतपुद्गलानादाय मनस्त्वेन परिणम्य परित्यजन मनो. योगी भाषायोग्यवर्गणागतपुद्गलांश्च गृहीत्वा वचनत्वेन परिणमय्य विमुञ्चन् - वचनयोग्यु
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy