________________
पर्याप्तपञ्चेन्द्रियतिर्यगादीनामुत्कृष्टकायस्थितिः ] कायस्थितिप्रकरणम् तिणि य पल्ला भणिया कोडिपुहुत्तं च होइ पुठवाणं । पंचिंदियतिरियनराणमेव उक्कोसकायठिई ॥१॥"इति . एवं पर्याप्तपञ्चेन्द्रियतिर्यक् पञ्चन्द्रियतिरश्ची-पर्याप्तमनुष्य-मानुषीमार्गणानामपि कायस्थिति भवनीया, उत्कृष्टतो निरन्तरं सप्ताष्टभवग्रहणात् । ननु पर्याप्तपञ्चेन्द्रियतिरश्चः पर्याप्तमनुष्यस्य चोत्कृटकायकायस्थितिरन्तमुहर्तन्यूनानि त्रिपल्योपमानि प्रज्ञापनासूत्रे प्रोक्ता, तथा च तद्ग्रन्थः "तिरिक्खजोणियपज्जत्तए णं भंते ! तिरिक्खजोणियपज्जत्तए त्ति कालतो केवचिरं होइ ? गोया ! जहन्नेणं अतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाइं अतोमुहुत्तोणाइ, xxxx एवं मणुस्से वि।" इति । तस्मात् प्रकृतग्रन्थोक्तकायस्थितिः कथं न विरुध्यते ? इति चेत् , उच्यते-विवक्षाभेदाद् न कश्चिद् विरोधः । तथाहि-श्रीप्रज्ञापनासूचे करणपर्याप्ताः पर्याप्तत्वेन विवक्षिताः, अत्र तु पर्याप्तनामकोंदयात् पर्याप्ता गृहीताः, करणापर्याप्ता अपि लब्धिपर्याप्ताः पर्याप्तत्वेन विवक्षिता इत्यर्थः, तेन प्रज्ञापनासत्रोक्ता कायस्थितिरन्तमुहर्तन्यूनानि त्रिपन्योपमानि भवति, भवप्रथमान्तमुहर्तकालस्या-ऽपर्याप्तावस्थायां व्यतिक्रान्तत्वात् । भाविता च तवृत्तिकारैरेवमेव श्रीमन्मलय. गिरिपा:-"तिर्यक्सूत्रे जघन्यतोऽन्तर्मुहूर्तभावना प्रागिव, उत्कर्षतस्त्रीणि पल्योपमान्यन्तर्मुहुर्तानानि, एतच्चोत्कृष्टायुषो देवकुर्वादिभाविनः तिरश्चोऽधिकृत्य वेदनीयं, अन्येषामेतावत्प्रमाणायाःपर्याप्ताऽवस्थाया अविच्छेदेनाऽप्राप्यमाणत्वात् ।अत्रा-ऽप्यन्तर्मुहूर्तानत्वमन्तर्मुहूर्तस्याऽऽद्यस्यापर्याप्ताऽवस्थायां गतार्थत्वात् ।" इति । इह ग्रन्थे तु पर्याप्तनामकर्मोदयवतां पर्याप्तत्वेन ग्रहणात् करणा-ऽपर्याप्ताऽवस्था न वज्यंते, यतः पर्याप्तनामकर्मोदयः संख्येयवर्षायुष्केषु सप्तभवेष्वसंख्येयवर्षायुष्केषु चैकस्मिन् तिर्यग्भवे मनुष्यभवे वा निरन्तरं प्राप्यते, तेन यथोक्तप्रमाणा कायस्थितिलभ्यते । अनया रीत्या प्रज्ञापनासूत्रेण सहा-ऽस्य ग्रन्थस्य न विरोध उद्भावनीयो नवा मतान्तरम् , किन्तु विवक्षाभेद एवेत्यलं विस्तरेण ॥४॥
सम्प्रत्यपर्याप्तपञ्चेन्द्रियतिर्यगादीनामेकजीवाश्रितोत्कृष्टकायस्थितिं वक्तुकामस्तत्समानत्वात् सर्वाऽपर्याप्तमार्गणा अन्याश्च पर्याप्तवादरसाधारणवनस्पतिकायादिमार्गणामेदान् संकलय्य निगदति
सव्वापजत्ताणं समत्तबायरणिगोअकायस्स । पजत्तगसुहुमाणं पणमणवयउरलमीसाणं ॥५॥ वेउव्वदुगस्स तहा आहारदुगस्स चउकसायाणं ।
सुहुमुवसममीसाणं भिन्नमुहुत्तं मुणेयव्वा ॥६॥ (प्रे०) 'सव्वापजत्ताण' इत्यादि, 'सर्वा-ऽपर्याप्तानां' सर्वेषां निखिलानाम् अपर्याप्तनामकर्मोदयवशवर्तिनाम् अपर्याप्तपञ्चेन्द्रियतिर्यगपर्याप्तमनुष्या--ऽपर्याप्तसूक्ष्मैकेन्द्रिया-ऽपर्याप्तवादरैकेन्द्रिया-ऽपर्याप्त विकलेन्द्रियत्रिका--ऽपर्याप्तपञ्चेन्द्रिया-ऽपर्याप्तमक्ष्मपृथ्वीकाया--ऽपर्याप्तवादरपृथ्वीकायाऽपर्याप्तसूक्ष्माप्कायाऽपर्याप्तवादराऽप्काया-ऽपर्याप्तसूक्ष्मतेजाकाया-ऽपर्याप्तबादरतेजःकाया-ऽपर्यातसूक्ष्मवायुकाया-ऽपर्याप्तवादरवायुकाया--ऽपयांतसूक्ष्मसाधारणशरीरवनस्पतिकाया-ऽपर्याप्तबादरसाधा