SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ . तिपाणा कायस्थितिप्रकरणम् [पञ्चेन्द्रियतिर्यगादीनामुत्कृष्टकायस्थितिः आगामिनि काले सांव्यवहारिकराशौ आगमिष्यन्ति, तान् समाश्रित्य तिर्यग्गत्यादीनां कायस्थितिरनादिसान्ता बोध्या । असांव्यवहारिकतः सांव्यवहारिकत्वेनोत्पत्तिस्तु सूत्रसिद्धा, पूर्वमहर्षिभिरुक्तत्वात् , तथा चोक्तं श्रीमजिनभद्रगणिक्षमाश्रमणैःसिज्झन्ति जत्तिया किर इह संववहारजीवरासीओ। एति अणाइवणस्सइरासीओ तत्तिया तम्मि।१॥ इति । इह प्रकृतग्रन्थे तु सांव्यवहारिकजीवराशिमधिकृत्य तिर्यग्गत्यादीनामसंख्येयपुद्गलपरावर्ता उत्कृष्टकायस्थितिरुक्ता ॥३॥ तिर्यग्गतिमार्गणायाः प्रभेदानामेकजीवाश्रितोत्कृष्टकायस्थितिं विभणिषुस्तत्साम्यतोऽन्या अपि मार्गणाः संगृह्य प्राह तिपणिंदियतिरियाणं तिणराणं च पलिओवमा तिण्णि। . अब्भहिया पुवाणं कोडिपुहुत्तेण णायव्या ॥४॥ (प्रे०) 'तिपणिदियः' इत्यादि, 'त्रिपञ्चेन्द्रियतिरश्चाम्' अपर्याप्तपञ्चेन्द्रियतिर्यमार्गणाया अनन्तरगाथया वक्ष्यमाणत्वात् पञ्चेन्द्रियतिर्यक्सामान्य-पञ्चेन्द्रियतिरश्ची-पर्याप्तपञ्चेन्द्रियतिर्यग्लक्षणानां तिसृणां मार्गणानां 'विनराणाम्' अपर्याप्तमनुष्यमार्गणाया अनन्तरगाथया निरूपयिष्यमाणत्वाद् मनुष्यगतिसामान्य-मानुषी-पर्याप्तमनुष्यरूपाणां त्रयाणां मार्गणास्थानानां च प्रत्येक पूर्वाणां कोटीपृथक्त्वेनाऽभ्यधिकानि त्रीणि पन्योपमानि 'ज्ञातव्या' एकजीवविषयोत्कृष्टकायस्थिति!ध्या । कथमेतदवसीयते ? इति चेत् , उच्यते-पञ्चेन्द्रियतिर्यश्वस्तत्रैव तिर्यक्षु, मनुष्यास्तु मनुष्येष्वेव पुनः पुनरुत्पद्यमाना उत्कृष्टतो निरन्तरं सप्ता-अष्टौ वा भवान् गृहन्ति, नाधिकान् , "नरतिरियाणं सगट्ठभवा" । इति पञ्चसङ्ग्रहकारवचनप्रामाण्यात् । तत्र पञ्चेन्द्रियतिर्यश्चो मनुध्याश्च पूर्वकोटिस्थितिकेत्कृष्टतः सप्तसु भवेत्पद्यन्ते, ततो-ऽष्टमे भवे तिर्यश्चस्तिर्यक्ष, मनुष्यास्तु मनुष्येषु त्रिपन्योपमस्थितिकेषु देवकुर्वादिक्षेत्रे समुत्पद्यन्ते, ततो देवेषु, कुतः ? इति चेत् , उच्यतेसंख्येयवर्षायुष्कसानभवग्रहणसमनन्तरं यदि तिर्यश्चस्तिर्यक्त्वेन मनुष्याश्च मनुष्यत्वेन समुत्पद्यन्ते, तर्हि नियमादसंख्येयवर्षायुष्केषु, ततश्च व्युत्वा नियमाद् देवेषूत्पद्यन्ते, युगलिकधर्माणां जीवानां देववर्जगत्यन्तरे समुत्पत्यभावात् । तेन भवति पञ्चेन्द्रियतिर्यग्मार्गणाया मनुष्यमार्गणायाश्चैकजीवाश्रितोत्कृष्टा कायस्थितिः सप्तपूर्वकोट्यधिकत्रिपन्योपममात्री, क यदुक्तं च जीवसमासप्रकरणे जधवलाकारास्तु-"अपणिदिएहितो आगंतूण पचिंदियतिरिक्ख-पंचिंदियतिरिक्खपज्जत्त-पचिंदियतिरिक्खजोणिणीसु उप्पज्जिय जहाकमेण पंचाणउदि-सत्तेत्तालीस-पण्णारसपुव्वकोडीओ परिभमिय दाणेण दाणाणुमोदणेण वा तिपलिदोवमाउढिदिएसु तिरिक्खेसु उपज्जिय सगभाउट्ठिदिमच्छिय देवेसु उप्पण्णस्स एत्तियमेत्तकालस्सुवलंभादो । xxxx अणप्पिदेहितो आगंतूण अप्पिदमणुसे सुवजिय सत्तेतालीस-तेवीस-सत्तपुवकोडीओ जहाकमेण परिभमिय दाणेण दाणाणुमोदेण वा त्तिपलिदोवमाउढिदिमणुस्सेसुपण्णस्स तदुवलंभादो।" इति वदन्ति ।
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy