SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ तिर्यग्गत्यादीनामुत्कृष्टकायस्थितिः ] काय स्थितिप्रकरणम् सम्प्रति तिर्यग्गतेरेकजीवाश्रयां कार्यस्थितिं प्ररूपयितुकामो वक्तव्यतासाम्यादेकेन्द्रियादि मार्गणा अपि संगृह्य प्राह या उ असंखेज्जा परियट्टा पुग्गलाण तिरियस्स । एगिंदियहरिआणं कायणपुं सगअसण्णीणं ॥३॥ [ ७ (प्रे०) 'या' इत्यादि, 'ज्ञेया' एकजीवाश्रितोत्कृष्ट कार्यस्थितिर्बोध्या, किती ? इत्याह- 'असं खेज्या' इत्यादि, ‘असंख्येयाः’ असंख्याताः 'परावर्ताः पुद्गलानां' पुद्गलपरावर्ताः 'तिरथः ' तिर्यग्गतिसामान्यमार्गणायाः 'एकेन्द्रियहरितयोः ' एकेन्द्रियस्य = एकेन्द्रिय सामान्य मार्गणाया हरितस्य = वनस्पतिसामान्यमार्गणायाश्च, 'कायनपुंसकाऽसंज्ञिनां' कायस्य = काययोगसामान्यमार्गणाया नपुंसकवेदमार्गणाया असंज्ञिनः = असंज्ञिमार्गणायाश्च । गाथायाः प्रथमपादे प्रोक्तस्तुकारो विशेषार्थः । स चावलिकाया असंख्येयतमभागे यावन्तः समयाः, तावत्प्रमाणा असंख्येयाः पुद्गलपरावर्ता बोध्या इति विशिनष्टि । अयं भावः - कविजीवः मृत्वा पुनः पुनस्सामान्येन तिरश्च्येवोत्पद्यमानः क्षेत्रत आवलिका-ऽसंख्येयभागगतस मयप्रमाणपुद्गलपरावर्तान् यावदवतिष्ठते, कालतः पुनरनन्तानन्तोसर्पिण्यवसर्पिणीलक्षणं कालं यावदवतिष्ठते, परतोऽवश्यं गत्यन्तरे समुत्पद्यते, तेन यथोक्ता कार्यस्थितिर्लभ्यते । एवमेकेन्द्रियादीनामपि काय स्थितेर्भावना कर्तव्या यदुक्तं प्रज्ञापनासूत्रे - “तिरिक्खजो - freणं भंते! तिरिक्खजोणिए ति कालमो केश्चिरं होइ ! गोयमा ! जह० अतोमुहुत्तं उक्कोसेणं भणतं कालं भनंताओ उस्सप्पिणिभोसप्पिणीभो कालभो, खेत्तभो भनंता लोगा असंखेज्जपोग्गल परियट्टा, ते पुग्गलपरियट्टा, आवलियाए असंखिज्जइभागे । x x x x x x - ए गिंदिए णं भंते ! एगिंदिए त्ति कालतो bafचिरं होइ ! गोयमा ! जहन्नेण अंतोमुहुत्तं, उक्कोसेणं भणतं कालं वणस्सइकालो । XXX X वणस्सइकाइया णं पुच्छा, गोयमा ! जहन्नेणं अ तोमुहुत्तं उक्कोसेणं अनंतं कालं अणंताओ उस्सप्पिणिभवसपि - णि कालभ, खेत्तओ अनंता लोगा असंखेज्जा पुग्गलपरियट्टा, ते णं पुग्गलपरियट्टा भावलियाए असंखे इभागो । X XX X कायजोगी णं भंते ! काल० ? गो० ! जद्दन्नेणं अतो० उक्को० वणफइकालो । XXX नपुंगवे णं भंते ? नपुं सगवेदे त्ति पुच्छा, गो० ! ज० एगं समयं उक्को० वणस्सइकालो ।” इति । अत्र सांव्यवहारिकजीवान् समाश्रित्य कायस्थितिर्बोध्या, अन्यथाऽसांव्यवहारिकजीवान् प्रतीत्य तु तिर्यग्गति-वनस्पतिकायादीनां भूयो भूयो निगोदत्वेनोत्पद्यमानानां कायस्थितिरनापर्यवसानानादिसान्ता चाऽपि स्यात् । इदमुक्तं भवति - निगोदा-वस्थात उद्धृत्य पृथिवीकायिकादिषु ये वर्तन्ते, ते लोकेषु दृष्टिपथमागताः सन्तः पृथिवीकायिकादिव्यवहारं लभन्त इति सांव्यवहारिका उच्यन्ते । ये पुनर्निगोदा-वस्थामुपगता एवा - ऽवतिष्ठन्ते, ते व्यवहारपथा ऽतीतत्वादसांव्यवहारिका भण्यन्ते । तत्राऽपि येऽसांव्यवहारिका जीवा जातु कदाचिदपि सांव्यवहारिकराशौ न पति व्यन्ति तानाश्रित्य तिर्यग्गतेः कार्यस्थितिरनाद्यपर्यवसाना सम्पद्यते, एवमेकेन्द्रियादीनामपि, निगो दावस्थायामेकेन्द्रियजाति- काययोग नपुंसक वेदाऽसंज्ञित्वानामुपलम्भात् । येऽसांव्यवहारिका जीवा "
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy