________________
श्रीयोगसारस्य मूलवृत्तानि पञ्चमः प्रस्तावः
परिशिष्टम् १
संसारावर्त्तनिमग्नो, घूर्णमानो विचेतनः । अध एव जनो याति, निकटेऽपि तटे हहा ॥४५॥ तिर्यगोघं यथा छिन्दन्- नद्याः स्यात् पारगः सुधीः । भवस्यापि तथोत्सर्गा-पवादकुशलो मुनिः ॥४६॥ एभिः सर्वात्मना भावै-र्भावितात्मा शुभाशयः । कामार्थविमुखः शूरः, सुधर्मैकरतिर्भवेत् ॥४७॥ इति तत्त्वोपदेशौघ - क्षालितामलमानसः । निर्द्वन्द्व उचिताचारः, सर्वस्यानन्ददायकः ॥४८॥
?
स्वस्वरूपस्थितः पीत्वा, योगी योगरसायनम् । निःशेषक्लेशनिर्मुक्तं, प्राप्नोति परमं पदम् ॥४९॥ ॥ युग्मम्॥
६२७