SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३०० ज्योतिष्करण्डकम् नक्षत्रेण सह योगे प्रवर्त्तन्ते, पंचापि चोत्तरायणविषुवाण्यश्विनीनक्षत्रेण योग इति, तत्रेयं भावना-यदि दशभिर्विषुवैः पंच सूर्यपर्याया लभ्यन्ते ततोऽयनद्विभागरूपे प्रथमे विषुवे किं लभामहे ? राशित्रयस्थापना १०-५-१, अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य पंचक रूपस्य राशेर्गुणनाज्जाताः पंचैव, आद्यश्च राशिः विषुवरूपो, विषुवं च प्रथममयनद्विभाग इति द्वाभ्यां गुण्यते, जाता विंशतिः, तया पूर्वराशेर्भागो हियते, लब्ध एकश्चर्तुभागः, एतं नियतनक्षत्रपरिमाणानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैर्गुणयिष्याम इति गुणकारराशेरर्द्धनापवर्तनाज्जातानि नव शतानि पंचदशोत्तराणि ९१५, तैरेकोऽनन्तरोक्तश्चतुर्थभागो गुण्यते, जातानि तान्येव नव शतानि पंचदशोत्तराणि, तेभ्योऽष्टाशीत्या पुष्यः शुद्धः, स्थितानि पश्चादष्टौ शतानि सप्तविंशत्यधिकानि ८२७, तेषां चतुस्त्रिंशदधिकेन शतेन भागो हियते, लब्धाः षट्, पश्चात्तिष्ठति त्रयोविंशतिः, आगतमश्लेषादीनि चित्रापर्यन्तानि षड् नक्षत्राण्यतिक्रम्य स्वातिनक्षत्रस्य चतुस्त्रिंशदधिकशतभागानां त्रयोविंशतिभागानवगाह्य प्रथमं विषुवं सूर्यः प्रवर्त्तयति । यदा तृतीयविषुवविषया चिंता क्रियते तदा तृतीयं विषुवं पंचानामयनद्विभागानामतिक्रमे भवति तत एवं त्रैराशिककर्म, यदि दशभिविषुवैः पंच सूर्यपर्याया लभ्यन्ते तत: पंचभिरयनद्विभागैः किं लभ्यते ? इति राशित्रयस्थापना १०-५-५, अत्रान्त्येन राशिना पंचकलक्षणेन मध्यमस्य पंचकरूपस्य राशेर्गुणनाज्जाता पंचविंशतिः, ततः पूर्ववदाद्यो राशिर्वाभ्यां गुण्यते, जाता विंशतिः, तया भागो ह्रियते, लब्धः एकः परिपूर्णः पर्यायः, पश्चादेकश्चतुर्थभागोऽवतिष्ठते, ततः पूर्वक्रमेणात्रापि तृतीये विषुवे स्वातिनक्षत्रलाभः, एवमुक्तनीत्या परिभाव्यमानानि पंचापि दक्षिणायनविषुवाणि स्वातिनक्षत्र एव लभ्यन्ते, नान्यत्रेति । सम्प्रत्युत्तरायणविषुवविषया भावना क्रियते, उत्तरायणविषयाणि च विषुवाण्यमूनि, तद्यथा-द्वितीयं चतुर्थं षष्ठमष्टमं दशमं च, द्वितीयं च विषुवं त्रयाणामयनद्विभागानामन्ते भवति, चतुर्थं सप्तानां षष्ठमेकादशानामष्टमं पंचदशानां दशममेकोनविंशतः तत्रैवं त्रैराशिक कर्म-यदि दशभिर्विषुवैः पंच सूर्यनक्षत्रपर्याया लभ्यन्ते ततस्त्रिभिरयनद्विभागैः किं लभामहे ? राशित्रयस्थापना १०-५-३ अत्रान्त्येन राशिना त्रिकलक्षणेन मध्यमः पंचकलक्षणो राशिर्गुण्यते, जाताः पंचदश, आद्यश्च दशकलक्षणो राशिः पूर्ववद् द्वाभ्यां गुण्यते, जाता विंशतिस्तया भागो हियते, लब्धास्त्रयश्चतुर्भागाः, तानष्टादशभिः शतैस्त्रिंशदधिकैर्गुणयिष्याम इति तस्य गुणकारराशेरद्धेनापवर्तनाज्जातानि नव शतानि पंचदशोत्तराणि ९१५, तैरनन्तरोक्तास्त्रयो गुण्यन्ते, जातानि सप्तविंशतिः शतानि पंचचत्वारिंशदधिकानि २७४५, तेभ्योऽष्टाशीत्या पुष्यः शुद्धः, स्थितानि पश्चात् षड्विंशतिशतानि सप्तपंचाशदधिकानि २६५७, तेषां
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy