SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ પ-ભિક્ષા અષ્ટક सोऽपि ज्ञातैव तत्फलतः ॥१॥" अथवा यो गुरुकुले वसतां प्रचुरसाधुत्वेन मनागनेषणीयभक्तभोजनसम्भवादिदोषोद्भावनतस्तन्निरपेक्षो भवति तस्यानेन व्यवच्छेद उक्तः, सद्गुरूपदेशानपेक्षो हि शास्त्रे निन्द्यते । यदाह-"जे उ तह विवज्जत्था, सम्मं गुरुलाघवं अयाणन्ता । सग्गाहा किरियरया, पवयणखिसावहा खुद्दा ॥२॥" इत्यादि, 'व्यवस्थित' इह विशब्देन यः कदाचित् गुर्वाज्ञाव्यवस्थितः कदाचिदन्यथा तस्यापि व्यवच्छेदः । ननु ये जिनकल्पिकप्रतिमाकल्पिकादयो गच्छनिर्गतास्तेषां गुर्वाज्ञाविकलानां कथं विवक्षितभिक्षाभाक्त्वमिति, उच्यते, तत्कल्पस्यैव गुर्वाज्ञारूपत्वादिति । तस्येतीह दृश्यम्, ततस्तस्य यतेः किंविधस्येत्याह- 'सदानारम्भिणः' सदा सर्वकालं अनारम्भिणः पृथिव्याधुपमर्दपरिहारिणः, अनेन पृथिव्यादिषु असंयतस्य व्ववच्छेदः, ध्यानादियोगस्यापि तदीयस्य निष्फलत्वात् । आह च- "सम्मद्दिछिस्स वि अविरयस्स न तवो महागुणो होइ । होइ हु हत्यिण्हाणं, तुंदच्छिययं व तं तस्स ॥१॥"* तुन्दाकर्षणे हि यावद् प्रमिकाष्ठं दवरकेण मुच्यते तावदेव बध्यत इति । सदाग्रहणेन तु यो विहितसामायिकपौषधतया कदाचिदनारम्भी देशतो यतिस्तस्य व्यवच्छेद उक्तो भिक्षाकत्वेन तस्यागमेऽनभिधानात् । ननु य एकादशी प्रतिमां प्रतिपन्नः श्रमणोपासकस्तस्य प्रतिमाकालावधिकत्वादनारम्भकत्वस्य न तदा तावदाद्या भिक्षा सम्भवति, नापि तदितरभिक्षतस्य वक्ष्यमाणतत्स्वामिलक्षणायोगादिति कास्य भिक्षेति ?, अत्रोच्यते, तस्य श्रमणभूतत्वाभिधानात् तद्भिक्षाया अपि श्रमणभिक्षाकल्पत्वात्तस्यामवस्थायां तस्या आप्तोपदिष्टत्वाच्च सर्वसम्पत्करीकल्पत्वमवसेयम्, न हसर्वसम्पत्करमतत्कारणं वा विधेयतया वस्त्वाप्ता उपदिशन्ति आप्तत्वहानिप्रसङ्गादिति । इह ध्यानादियुक्त इत्यत्रादिशब्देन सदानारम्भित्वस्यावबोधेऽपि भेदेन तदुपादानं हेतुत्वार्थम्, ततश्च सदानारम्भिकत्वाद्धेतोः 'सर्वसम्पत्करी' उक्तनिर्वचना, मता तत्त्वविदामिति । सदानारम्भस्य हि वृत्तिर्भिक्षयैवान्यथा त्वारम्भित्वप्रसङ्गात्, सा चानारम्भित्वादेव सर्वसम्पत्करी, अत एव सातिप्रशस्या। यदाह"अहो जिणेहिं असावज्जा, वित्ती साहूण देसिया । मोक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥१॥" ॥२॥ पुनरपि किम्भूतस्य तस्येत्याहवृद्धाद्यर्थमसङ्गस्य, भ्रमरोपमयाऽटतः । गृहिदेहोपकाराय, विहितेति शुभाशयात् ॥३॥ वृत्तिः-'अटतो' यतेः सर्वसम्पत्करी भिक्षा भवतीति प्रकृतम्, किमर्थमटत इत्याह- 'वृद्धाद्यर्थ' वृद्धा वयःपर्यायश्रुतस्थविराः, आदिशब्दाद् बालग्लानशिष्य(शैक्ष)कप्राघुर्णकादिपरिग्रहः, तदर्थं तन्निमित्तमिति, अनेन स्वोदरविवरभरणप्रवणान्तःकरणस्य क्षपणकादेर्व्यवच्छेद उक्तः, वृद्धादिवैयावृत्त्यं हि सक ३५. ये तु तथा विपर्यस्ताः सम्यग्गुरुलाघवं अजानन्तः । स्वग्राहात् क्रियारताः प्रवचनखिसावहाः क्षुद्राः ॥१।(तुच्छा:कृपणा:कूरा वा) ३६. सम्यग्दृष्टेरप्यविरतस्य न तपो महागुणं भवति । भवति हु हस्तिस्नानं तुन्दाच्छिदमिव तत्तस्य ॥१॥ ★ तुन्दा मन्थानदण्डिका ३७. अहो जिनैरसावद्या, वृत्तिः साधूनां देशिता (दर्शिता) । मोक्षसाधनहेतोः साधुदेहस्य धारणाय ॥२॥
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy