SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ ७८ પ-ભિક્ષા અષ્ટક लकल्याणवल्लरीकन्दकल्पं वर्तते, यदाह-"वेयावच्चं निच्चं, करेह संजमगुणे धरंताणं । सव्वं किर पडिवाई, वेयावच्चं अपडिवाई ॥१॥" अतस्तन्निरपेक्षस्य कथं सर्वसम्पत्करभिक्षाभागित्वमिति, तथा 'असङ्गस्य' शब्दादिविषयेष्वनभिष्वङ्गस्य । आह चं- “सहाइएसु साहू, मुच्छं न करेज्ज गोयरगओ य । एसणजुत्तो होज्जा, गोणीवच्छो गवत्तिव ॥१॥" अथवा वृद्धग्लानाद्यर्थमटतोऽपि तदुद्देशलब्धपेशलदालिशालिकूरादिभोजनेष्वलुब्धस्य, तदितरस्स तु तथाविधवैयावृत्त्यकरणादेर्व्यवच्छेदः, तथा 'भ्रमरोपमया' मधुकरनिदर्शनेन, यथा हि मधुकरः कतिपयमकरन्दकणस्वीकरणतः कुसुमक्लमाकरणेनात्मानमनुप्रीणात्येवमेव मुनिमधुकराः स्तोकस्तोकान्नमकरन्दग्रहणतो गृहपतिप्रसूनपीडानापादनेन संयमात्मानमनुपालयन्तीत्येवंरूपेणेति, अनेन च य एकत्र सदनि भुङ्क्ते तस्य निरासः, एकत्र भोजने हि कथञ्चिदुद्गमदोषपरिहरणप्रयत्नपरस्यापि पुरःकर्मपश्चात्कर्मासंयतचेष्टाकृतदोषप्रसङ्ग इति, 'अटतः पर्यटतो भिक्षाकुलेष्वनेन च अनटतो निषेधः, अनटनेन हि भिक्षाग्रहणेऽभ्याहृतदोषसद्भावः, अथ ये गृहस्थाः साधुवन्दनार्थमागच्छन्ति तदानयनेऽसौ न भविष्यति वन्दनार्थागमनस्य गृहस्थप्रयोजनत्वात्साध्वर्थभक्तानयनस्य च प्रासङ्गिकत्वादिति, नैवम्, अभ्याहृतदोषाभावेऽपि मालापहृतनिक्षिप्तपिहिताद्यनेकविधदोषप्रसङ्गात्, अथ गृहस्थवचनप्रामाण्यात्तदवगमे तत्परिहारो भविष्यति, सत्यम्, किन्तु गृहस्थहस्तस्थापितादिदोषो दुष्परिहार्यः स्यादिति, किंविधेन आशयविशेषेणाटत इत्याह- 'गृहिदेहोपकाराय' गृहिणां स्वशरीरस्य चोपग्रहार्थम् । तत्र गृहिणामारम्भपरिग्रहगृहीतात्मनां दुर्गतिगमननिबन्धनकर्मबन्धवतां धर्मसाधककायोपकारकाहारग्रहणद्वारेणात्यन्तिकसुखफलनिर्वाणतरुबीजकल्पपुण्यसम्पादनत उपकारः, तथा स्वदेहस्याहारविरहितस्य शुद्धधर्मसौधशिखरमध्यासितुमशक्तस्याहारलक्षणावलम्बनदानत उपकारः । अनेन तु यो गृहिणामप्रीत्युत्पादनेन धर्मकायस्य चाहारलौल्याद्धर्मानुपग्राहकाहारग्रहणेनापकारी तस्य निषेधः, तथा दैन्याच्छ्रीमत्पुत्रादितया लज्जमानो वा योऽटति तन्निषेधायाह- "विहिता' यत्यवस्थोचिता इयं तीर्थकरैरप्याचरितत्वादुपदिष्टत्वाच्च, 'इति' एवंप्रकारात्, 'शुभाशयात्'प्रशस्ताध्यवसायात्, अथवा गृहिदेहोपकाराय विहिता जिनैरुपदिष्टा भिक्षा 'इति' एवंरूपाच्छुभाशयादटत इति प्रकृतमेवेति ॥३॥ | સર્વસંપન્કરી ભિક્ષા લેનારાં સાધુનાં લક્ષણો તેમાં પહેલી સર્વસંપન્કરી ભિક્ષાને કહે છે – શ્લોકાર્થ જે સાધુ ધ્યાનાદિથી યુક્ત, ગુર્વાજ્ઞામાં વ્યવસ્થિત, સદા આરંભથી રહિત, વૃદ્ધાદિ માટે ભિક્ષા લેનાર, અને અનાસક્ત હોય, તથા ગૃહસ્થોના અને પોતાના દેહના ઉપકાર માટે જિનોએ ભિક્ષાનો ઉપદેશ કર્યો છે એવા શુભાશયથી ભ્રમરની ઉપમાથી (ભિક્ષા માટે) ભમતો હોય તેની ભિક્ષા સર્વસંપન્કકરી છે. (૨-૩) ટીકાઈ–બાનાદિથી યુક્ત– સેંકડોભવોથી એકઠા કરેલા કર્મવનને બાળવા માટે અતિશય પ્રજ્વલિત બનેલા અગ્નિસમાન, તપના સઘળા પ્રકારોમાં શ્રેષ્ઠ, અને અત્યંતર તપશ્ચર્યરૂપ ધર્મધ્યાનથી યુક્ત. આદિ ३८. वैयावृत्त्यं नित्यं कुरुत संयमगुणायरताम् । सर्व किल प्रतिपाति वैयावृत्त्यमप्रतिपाति ॥२॥ ३९. शब्दादिकेषु साधुः मूच्छा न कुर्यात् गोचरगतश्च । एषणायुक्तो भवेद् गोवत्सो गौरितीव ॥१॥
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy