SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ ४४ ૨-સ્નાન અષ્ટક रूपः पारगतसमीपोपलब्धस्वकीयपूर्वभववृत्तान्तः पारगतोपदेशतो दुर्गतत्वनिबन्धनकर्मक्षपणाय यदहमुपार्जयिष्यामि द्रव्यं तद् ग्रासाच्छादनवर्ज जिनायतनादिषु नियोक्ष्ये इत्यभिग्रहं गृहीतवान्, कालेन च निर्वाणमवाप्तवानिति ।" अथ युक्तं संकाशस्यैतत्तथैव तत्कर्मक्षयोपपत्तेर्न पुनरन्यस्य । नैवम्, सर्वथैवाशुभस्वरूपव्यापारस्य विशिष्टनिर्जराकारणत्वायोगादिति । यत्तु "शुद्धागमैर्यथालाभम्" इत्यादि तन्न स्वयं पुष्पत्रोटननिषेधपरम्, किन्तु पूजाकालोपस्थिते मालिके दर्शनप्रभावनाहेतोर्वणिक्कला न प्रयोक्तव्येत्यस्यार्थस्य ख्यापनपरम् । इतरथा श्रूयते- "सुव्वइ दुग्गइनारी, जगगुरुणो सिन्दुवारकुसुमेहिं । पूयापणिहाणेणं, उववन्ना तियसलोगम्मि ॥१॥" इति वचनं व्याहन्येत । न हि तया यथालाभं न्यायोपात्तवित्तेन वा तानि गृहीतानि, इति । तथा चैत्यसम्बन्धितया ग्रामादीनां प्रतिपादनान्नारामाद्यभावः प्रोक्तः । यदाह-"चोएइ चेइयाणं, रुप्पसुवण्णाइ गामगावाइं । ल(म)ग्गंतस्स हु मुणिणो, तिगरणसुद्धी कहं णु भवे ? ॥१॥ भण्णइ एत्थ विभासा, जो एयाई सयं विमग्गेजा। न हु तस्स हुज्ज सुद्धी, अह कोइ हरेज्ज एयाई॥२॥ सव्वत्यामेण तहिं, संघेणं होइ लग्गियव्वं तु । सचरित्तचारित्तीणं, एयं सव्वेसिं कज्जं तु२ ॥३॥" तदेवं मलिनारम्भिणो धर्मार्थं स्नानादिकमविरुद्धमिति स्थितम् । ननु यतिरत्र कस्मान्नाधिकारी ? यतः कर्मलक्षणो व्याधिरेको द्वयोरपि यतिगृहस्थयोरतस्तच्चिकित्सापि पूजादिलक्षणा समैव भवति, ततो यद्येकस्याधिकारः कथं नापरस्य । अथ "स्नानमुद्वर्तनाभ्यङ्गं, नखकेशादिसंस्क्रियाम् । गन्धमाल्यं च धूपं च, त्यजन्ति ब्रह्मचारिणः ॥१॥" इति वचनात् यतेः स्नाने तत्पूर्वकत्वाद्देवार्चनस्य तस्मिंश्च नाधिकारः । नैवम्, भूषार्थस्यैव तस्य निषेधात् । अथ सावधनिवृत्तोऽसाविति तत्र नाधिकारी । ननु यदि यतिः सावधान्निवृत्तस्ततः को दोषो यत्स्नानं कृत्वा देवतार्चनं न करोति, यदि हि स्नानपूर्वकदेवतार्चने सावधयोगः स्यात्तदासौ गृहस्थस्यापि तुल्य इति तेनापि न कर्तव्यं स्यात् । अथ गृहस्थः कुटुम्बाद्यर्थेऽपि सावधे प्रवृत्तस्तेन तत्रापि प्रवर्तताम्, यतिस्तु तत्राप्रवृत्तत्वात्कथं स्नानादौ प्रवर्तते इति । ननु यद्यपि कुटुम्बाद्यर्थ गृही सावद्ये प्रवर्तते तथापि तेन धर्मार्थं तत्र न प्रवर्तितव्यं स्यात्, यतो "नैकं पापमाचरितमित्यन्यदप्याचरितव्यं स्यात्' । अथ कूपोदाहरणात् पूजादिजनितमारम्भदोषं विशोध्य गृही गुणान्तरमासादयतीति युक्तं गृहिणः स्नानपूजादि । ननु यथा गृहिणां कूपोदाहरणात् स्नानादि युक्तमेवं यतेरपि तद्युक्तमेव, एवं च कथं स्नानादौ यति धिकारी । इति पूर्वपक्षः । अत्रोच्यते, यतयो हि सर्वथा सावधव्यापारान्निवृत्ताः, ततश्च कूपोदाहरणेनापि तत्र प्रवर्तमानानां तेषामवद्यमेव चित्ते स्फुरति न धर्मः तत्र सदैव शुभध्यानादिभिः प्रवृत्तत्वात्, गृहस्थास्तु सावधे स्वभावतः सततमेव प्रवृत्ता न पुनर्जिनार्चनादिद्वारेण स्वपरोपकारात्मके धर्मे, तेन तेषां तत्र प्रवर्तमानानां स एव चित्ते लगति न पुनरवद्यमिति कर्तृ-परिणामवशादधिकारीतरौ मन्तव्याविति स्नानादौ गृहस्थ एवाधिकारी न यतिरिति । आगमोऽप्येवं व्यवस्थितः । यदाह-"छज्जीवकायसंजमो, दव्वस्थए सो विरुज्झए १९. श्रूयते दुर्गतिनारी, जगद्गुरोः सिन्दुवारकुसुमैः । पूजाप्रणिधानेन, उपपन्ना त्रिदशलोके ॥१॥ २०. चोदयति चैत्येभ्यो, रूप्यसुवर्णादि ग्रामगवादि । लग(मार्गय)तो मुनेः, त्रिकरणशुद्धिः कथं न भवेत् ? ॥१॥ २१. भण्यतेऽत्र विभाषा, य एतानि स्वयं विमार्गयेत् । नैव तस्य भवेच्छुद्धिरथ कश्चिद्धरेदेतानि ॥२॥ २२. सर्वस्थाम्ना तत्र, सङ्घन भवति लगितव्यं तु । सचारित्राचारित्रिणां एतत् सर्वेषां कार्य तु ॥३॥
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy