________________
Rs ५४२९॥
४३
૨-સ્નાન અષ્ટક
લાગવા છતાં પછી પૂજાથી થયેલા શુભભાવો દ્વારા વિશિષ્ટ અશુભ કર્મોની નિર્જરા અને પુણ્યાનુબંધી પુણ્યનો બંધ તો હોવાથી પરિણામે લાભ થવાથી સ્નાનાદિની પ્રવૃત્તિ લાભકારી છે.) દ્રવ્ય સ્નાન વિશિષ્ટ સમ્યગ્દર્શનશુદ્ધિ aula Yeuy ॥२९॥ . (४)
यदि भावशुद्धिनिमित्तत्वात् शोभनं द्रव्यस्नानं तर्हि करोति मलिनारम्भीति कस्मादभिहितममलिनारम्भिणोऽपि तथैव तस्य शोभनत्वादित्याशङ्क्याह
अधिकारिवशात् शास्त्रे, धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या, विज्ञेया गुणदोषयोः ॥५॥
वृत्तिः- अधिकारोऽस्यास्तीति अधिकारी योग्याऽनुष्ठातातस्य वशोऽपेक्षा अधिकारिवशस्तस्मान्न यथाकथञ्चिदित्यर्थः । 'शास्त्रे' सुनिश्चिताप्तागमे, 'धर्मसाधनयोः' प्रस्तुतयोर्द्रव्यस्नानभावस्नानलक्षणयोः, 'संस्थितिः' सम्यग्व्यवस्था, 'धर्मसाधनसंस्थितिः, किंरूपेयमित्याह-'व्याधिप्रतिक्रियातुल्या' रोगचिकित्साव्यवस्थासमाना, "विज्ञेया' सद्गुरूपदेशादर्थिभिरवसेया। कयोर्विषय इत्याह-'गुणदोषयोः' गुणदोषावाश्रित्येत्यर्थः । इयमत्र भावना- यथातुरवशाद् व्याधिचिकित्सा गुणकरी दोषकरी च तथा मलिनारम्भीतरलक्षणानुष्ठातृवशाद् द्रव्येतरस्नानरूपे धर्मसाधने गुणदोषकरे, द्रव्यस्नानं मलिनारम्भिण एव गुणकर नेतरस्येति हृदयम्, यतो मलिनारम्भी देवतोद्देशेन स्नानादावधिकारी न त्वितरः । केचित्पुनर्वदन्ति मलिनारम्पयपि नेहाधिकारी यस्माद्वक्ष्यति अयमेव ग्रन्थकारः- ."धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१॥" इति । अनेन धर्मार्थ सावधप्रवृत्तिर्निषिद्धा, तथा "*शुद्धागमैर्यथालाभम्" इति वक्ष्यत्यनेन च पुष्पत्रोटनाभावो देवसम्बन्ध्यारामाभावश्च दर्शित इति । न चायं सम्यगुल्लापः । यतः स्नानं विधेयतया देवार्चनार्थमुपदिष्टमेव । यदाह- "तत्थ सुइणा दुहा वि हु, दव्वेण्हाएण सुद्धवत्येण" इति । अथ प्रासङ्गिकस्नानापेक्षोऽयमुपदेशो न तु देवतोदेशिकः । एतदपि न सङ्गतम् । एवं हि यदा कदाचित् स्नातो भवेत् तदा देवतार्चनं कुर्यादित्युपदिष्टं स्यान्न नित्यकृत्यतया, नित्यकृत्यं चैतत् । आह च- "वंदति चेइयाइं, तिक्कालं पूइऊण विहिणा उ" इति । यच्चोक्तं धर्मार्थमित्यादिना धर्मार्था सावधप्रवृत्तिर्निषिद्धा तत् सत्यम्, केवलं स निषेधः सर्वविरतापेक्षया तदधिकारेऽस्य श्लोकस्याधीतत्वात्, गृहस्थापेक्षया तु सावधप्रवृत्तिविशेषोऽनुज्ञात एव । यदाह- "दव्वत्थए कूवदिटुंतोत्ति ॥" तथा वाणिज्यादिसावधप्रवृत्तिरपि काचित्कस्यचिन्न दुष्टा विषयविशेषपक्षपातरूपत्वेन पापक्षयगुणबीजलाभहेतुत्वात्, यथा संकाशस्य । “संकाशश्रावको हि प्रमादाद्भक्षितचैत्यद्रव्यो निबद्धलाभान्तरायादिक्लिष्टकर्मा चिरपर्यटितदुरन्तसंसारकान्तारोऽनन्तकालाल्लब्धमनुष्यभावो दुर्गतनरशिरःशेखर
१६. तत्र शुचिना द्विधापि हु द्रव्ये स्नातेन शुद्धवस्त्रेण इति । भावे उ अवत्योचियविसुद्धवित्तिप्पहाणेण । इति गाथापूर्तिः । १७. वन्दन्ते चैत्यानि त्रिकालं पूजयित्वा विधिना तु । -अष्टक ४ श्लोक ६ * अष्टक ३ श्लोक २ १८. द्रव्यस्तवे कूपदृष्टान्त इति ।