SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ૧-મહાદેવ અષ્ટક અષ્ટક પ્રકરણ उदाहृतं शास्त्रं शिववर्त्म इत्यनेन पुरुषानुदाहृतस्याप्रामाण्यमाविष्करोति तस्यासम्भवादेव । तदसम्भवश्चैवम्-या या वचनरचना सा सा पौरुषेयी दृष्टा, यथा कुमारसम्भवादि:, वचनरचना च वेद इति, तस्मात्पौरुषेयोऽसाविति, विरुद्धं च विवक्षाताल्वादिव्यापारपुरुषधर्मजन्यवचनस्वरूपस्य वेदस्यापौरुषेयत्वम् । यदाह-‘'ताल्वादिजन्मा ननु वर्णवर्गो, वर्णात्मको वेद इति स्फुटं च । पुंसश्च ताल्वादिरतः कथं स्यादपौरुषेयोऽयमिति प्रतीतिः ॥ १||" 'शास्त्रं शिववर्त्ये' त्यनेन तु ये शास्त्रस्याप्रामाण्यमाश्रितास्तन्मतमपास्तम् । ते हि मन्यन्ते, प्रत्यक्षगोचरेऽप्यर्थे वचनस्य व्यभिचारदर्शनान्न तत्प्रमाणम् । न चैतद्युक्तम् । सुनिश्चिताप्तप्रणीतस्यैव वचनस्य प्रमाणत्वाभ्युपगमात् । न चेतरवचनस्य व्यभिचारमुपलभ्य सर्ववचनानामप्रामाण्यं व्यवस्थापयितुं युक्तम्, इतरथा मरीचिकानिचयचुम्बिजलावभासिप्रत्यक्षमसत्यमवलोकितमिति सकलाध्यक्षाणामप्रामाण्यप्रसङ्गः, तदप्रामाण्ये चानुमानमपि न प्रमाणं स्यात्, प्रत्यक्षपूर्वकत्वादनुमानस्य, तथा च द्वे एव प्रमाणे प्रत्यक्षमनुमानं चेति वचनं व्याहतिमापद्येतेति । उक्तं चागमप्रामाण्यवादिभि:- 'स्वर्गाद्यतीन्द्रियगतौ वच एव मानं, येनान्यमानविषया न भवन्ति ते हि । किञ्चागमाभिहितमेव समर्थयन्ति, नापूर्वमर्थमनुशासति साधनज्ञाः ||१|| " ૨૪ 1 त्रिकोटीदोषवर्जितम्' अनेन तु यत्परीक्षाक्षमं न भवति न तच्छिववर्त्मत्युक्तं भवति । अपरीक्षाक्षममपि धर्मशास्त्रं कैश्चिदभ्युपगतम् । यदाहु:- " पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः || १||" इति । इहार्थेऽन्ये वदन्ति - "अस्ति वक्तव्यता काचित्, तेनेदं न विचार्यते । निर्दोषं काञ्चनं चेत्स्यात्, परीक्षाया बिभेति किम् ||१||" आप्तशास्तृकैः पुनराप्तवचनमेवमनूद्यते । " निकषच्छेदतापेभ्यः, सुवर्णमिव पण्डितैः । परीक्ष्य भिक्षवो ग्राह्यं मद्वचो न तु गौरवात् ॥ १||” शास्त्रगतकषादिपरीक्षात्रयस्य च स्वरूपमिदम् - विधिप्रतिषेधौ कषः । आह च पाणिवहाईयाणं, पावट्ठाणाण जो उ पडिसेहो । झाणज्झयणाईणं, जो य विही एस धम्मकसो ||१||" विधिप्रतिषेधयोरबाधकस्य + सम्यक्तत्पालनोपायभूतस्यानुष्ठानस्योक्तिः छेदः । यदाह - "बज्झाणुट्ठाणेणं, जेण न बाहिज्ज यं नियमा । संभवइ य परिसुद्धं, सो पुण धम्मम्मि छेओत्ति' ॥२॥ " बन्धमोक्षादिसद्भावनिबन्धनात्मादिभाववादः तापः । उक्तं च- 'जीवाइभाववाओ, बन्धाइपसाहगो इहं तावो । एएहिं परिसुद्धो, धम्मो धम्मत्तमुवे ॥३॥” कषादिशुद्धयस्त्वेवम्- मनोवाक्कायकरणकारणानुमतिभिरर्थानर्थाश्रयेणाजन्म सूक्ष्मबादराणां प्राणातिपातादीनां प्रतिषेधो रागादिनिग्रहाप्रतिघहेतुभूतयोश्च ध्यानतपसोर्विधिर्यत्र शास्त्रे तत्कषशुद्धम् । आह च‘‘सुहुमो असेसविसओ, सावज्जे जत्थ अस्थि पडिसेहो । रागाइविअ (उ)डणसहं, झाणाइ य एस कससुद्धो ॥५॥" यत्र पुनरेवंविधौ प्रतिषेधविधी न भवतो न तत्कषशुद्धम् । यथा- "प्राणी प्राणिज्ञानं, घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः, पञ्चभिरापद्यते हिंसा || १||" तथा "अनस्थ्ाां (स्थि)जन्तूनां २. प्राणिवयादिकानां पापस्थानानां यस्तु प्रतिषेधः । ध्यानाध्ययनादीनां यश्च विधिरेष धर्मकषः ।। + विधिप्रतिषेधयोरबाधयोरबाधकस्य इति ॥ पाठान्तरे ॥ ३. बाह्यानुष्ठानेन येन न बाध्यते तन्नियमात् । सम्भवति च परिशुद्धं स पुनर्धर्मे छेद इति । ४. जीवादिभाववादो बन्धादिप्रसाधक इह तापः । एतैः परिशुद्धो धर्मो धर्मत्वमुपैति ॥ ५. सूक्ष्मोऽशेषविषयः सावद्ये यत्रास्ति प्रतिषेधः । रागादिविकुट्टनसहं ध्यानादि च एष कषशुद्धः ॥
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy