________________
અષ્ટક પ્રકરણ
૧૩૮
૧૦-વેરાગ્ય અષ્ટક
कारणं । पडणे कारणं नत्थि, अन्नत्युप्पायकारणा ॥१॥" एवं संकडधम्माणं, उप्पाए अस्थि कारणं । विणासे कारणं नत्यि, अन्नत्युप्पायकारणा ॥२॥ न निहाणगया भग्गा, पुंजो नत्यि अणागए । निव्वुया नेव चिट्ठन्ति, आरग्गे सरिसोवमा ॥३॥" तथा ॥ "अर्थक्रियाविधायित्वं, वस्तुलक्षणमुच्यते । क्रमाक्रमाविरुद्धा च, क्रिया निःशेषवस्तुषु ॥१॥ क्रमाक्रमविरोधश्च, नित्ये वस्तुनि तां प्रति । तेन वस्तु क्षणस्थायि, परिणामवियोगतः ॥२॥" तथा 'असन्' न विद्यमान आत्मेति, यतो बौद्धसिद्धान्ते वृत्तमिदम्- "यथा कुमारी स्वप्नान्तरे(त)ऽस्मिन्, सा पुत्रं जातं च मृतं च पश्यति । जातेऽतितुष्टा मृते दौर्मनस्यिता, तथोपमान् जानत सर्वधर्मान् ॥१॥" एतस्य वृत्तस्य छान्दसत्वात् नापशब्दच्छन्दोभङ्गाववधार्याविति । तथा "सर्वे धर्मा निरात्मान, एतत्साधनहानितः । दृष्ट्युच्छेदस्तु मा भूया-दिति सत्ता प्रकीर्तिता ॥१॥" 'वाशब्दो' विकल्पार्थोऽनुक्तसमुच्चयार्थो वा, तेन चित्तमात्रं वात्मेति । यतः सुगतवचनम्-"चित्तमात्रं भो जिनपुत्र, . यदेतत्रैधातुकमिति ॥"
'इह' इत्यस्मिल्लोके, 'सर्वथा' इति सर्वत्र सम्बध्यते, ततश्च सर्वथैकः सर्वथा नित्य आत्मेत्यादिनिश्चयादेव मोहगर्भत्वं वैराग्यस्य स्यात्, कथञ्चिदेकत्वादिनिश्चयात् पुनः सज्ञानसङ्गततां तस्य वक्ष्यति, तथाविधनिश्चयस्य वस्तुपरामर्शित्वेन सज्ञानत्वादिति, तथाहि, सामान्यरूपापेक्षया एकत्वमस्य, विशेषरूपापेक्षया त्वनेकत्वमेव, न च वाच्यं सामान्यं विशेषेभ्यो भेदाभेदविकल्पाभ्यामनुपपद्यमानत्वादसत्, विशेषेभ्यः सामान्यस्यैकान्तेन भेदाभेदयोरनभ्युपगमात्, तथाहि- विशेषा एव समताप्रत्ययनिबन्धनतामापद्यमानाः सामान्यमुच्यते, विषमताप्रत्ययनिबन्धनतामापद्यमाना विशेषा इति । यदाह-"वैषम्यसमभावेन, ज्ञायमाना इमे किल । प्रकल्पयन्ति सामान्य-विशेषस्थितिमात्मनि ॥१॥" इति । तथा सर्वथैकत्वे आत्मनः सर्वमसमअसं स्यात्, यदाह-"आत्मनां सर्वथैकत्वे, वेदनं सुखदुःखयोः । भेदसिद्धं न युज्यते, न वा संसारनिर्वृती ॥१॥"
यच्चोक्तम्-"पुरुष एवेदमित्यादि । तद्वचनमात्रम्, अप्रमाणकत्वादिति । तथा नित्यत्वमप्यात्मनो द्रव्यार्थापेक्षया सङ्गतमेव, न तु सर्वथा, पर्यायार्थतया तस्यानित्यत्वात् । आह च-"द्रव्याश्रयं च नित्यत्वमात्मानो हन्त सङ्गतम् । कूटस्थनित्यतायोगे, बन्धमोक्षाद्यसङ्गतेः ॥१॥ पर्यायतस्त्वनित्यत्वं, सिद्धं बाल्यादिदर्शनात् । अनित्यतां विना नैव, स्यादवस्थाविचित्रता ॥२॥ यथाहेः कुण्डलावस्था, व्यपैति तदनन्तरम् । सम्भवत्यार्जवावस्था, सर्पत्वं त्वनुवर्तते ॥३॥ एवमस्य निवर्तन्ते, जायन्ते चापरापराः । अवस्थाः सुखदुःखाद्या-चैतन्यं त्वनुवर्तते ॥४॥ न चावस्थाविभेदेन, सर्वथैव स भिद्यते । क्रमवद्वर्णसंस्पर्शि-विकल्पप्रत्ययो यथा ॥५॥ विकल्पस्याप्यनेकत्वे, न स्याद्वस्तुविनिश्चयः । तदभावे च न स्यातां, प्रवर्तननिवर्तने ॥६॥ विरुद्धधर्मयोगोऽपि, नैकान्तेन विभेदकः । यथैकमपि प्रत्यक्षं, भान्तावान्ततया मतम् ॥७॥" तथा सर्वथैवात्मनो बन्धाभावे प्रकृतेरेव वा बन्ये आत्मनो मोक्षो न युज्यते, लोके हि यो बद्धस्तस्यैव मोक्षो व्यपदिश्यते नान्यस्येति, आह च-"प्रकृतेरेव बन्धश्चेत्, तदा पुंसो न मुक्तता । अबद्धत्वेन तस्यापि, मुक्तौ स्यादसम७८. यथा लेष्ठुके क्षिप्ते उत्पादेऽस्ति कारणम् । पतने कारणं नास्ति अन्यत्रोत्पादकारणात् ॥१॥ ७९. एवं सङ्कटयर्माणामुत्पादेऽस्ति कारणम् । विनाशे कारणं नास्ति अन्यत्रोत्पादकारणात् ॥२॥ ८०. न निधानगता भग्नाः पुञ्जो नास्त्यनागते । निर्वता नैव तिष्ठन्ति आराग्रे सर्षपोपमाः ॥३॥