SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ ૧૩૯ ૧૦-વેરાગ્ય અષ્ટક असम् ॥१॥" तथा क्षणिकत्वमपि सर्वथैव सद्धि भिमन्यते, कथञ्चिदेव तस्यानुमतत्वात्, इदं चानन्तरमेवोपदशितम्, "द्रव्याश्रयं च नित्यत्वम्" इत्यादिना वचनसन्दर्भेण । यच्च क्षणिकत्वसाधनायोक्तं, "जह लेट्यम्मि खित्ते' इत्यादि, तत्पर्यायापेक्षया युक्तमेव, द्रव्यापेक्षया तु नित्यत्वमुपदर्शितमेव । यच्चोक्तं, "अर्थक्रियाविधायित्वम" इत्यादि, तत्रोच्यते । अर्थक्रियाकारित्वं सत्त्वलक्षणं न भवत्येव, दीपाद्यन्तक्षणेन व्यभिचारात् । अथ ज्ञानजनकत्वात्तस्य न व्यभिचारः, नैवम्, योगिज्ञानजनकत्वेनातीतानागतार्थानां वस्तुत्वप्राप्तेः । भवतु वार्थक्रियाकारित्वलक्षणं सत्त्वम्, तथापि तत् परिणामिन्येव वस्तुनि सङ्गच्छते, क्षणिकाक्षणिकयोस्तदसम्भवात्, तथाहि- क्षणिकोऽर्थः पूर्वक्षणे १ स्वक्षणे २ अनागतक्षणे ३ वा कार्यं करोतीति विकल्पाः, तत्र न तावत् पूर्वक्षणे, तस्य तदानुत्पन्नत्वेनासत्त्वात्, नापि स्वक्षणे, समकालभाविनि व्यापाराभावादितरथैकक्षणवर्तिनां समस्तार्थक्षणानामितरेतरं कार्यकारणभावः प्रसज्येत, नाप्यनागतक्षणे, तत्र तस्य विनष्टत्वेनासत्त्वादेव । किञ्च, क्षणिकोऽर्थः क्रमेणार्थक्रियां करोति यौगपद्येन वा, न तावत् क्रमेण, क्षणिकत्वे क्रमकरणस्यासम्भवात्, नापि योगपद्येनेति पक्षः, यतोऽसौ सन् करोति असन् वा, न असन्, असत्त्वादेव, खरविषाणवत्, नापि सन्, स्वक्षणकरणोक्तदोषप्रसङ्गात् । किञ्च स्वभावभेदवतामनेककार्याणां युगपत्करणे वस्तुनोऽनेकस्वभावतापत्तिः स्यात्, न चासौ क्षणवादिनामस्तीति । अक्षणिकं तु भवतैवैकस्वभावतया विकल्पद्वयेनापि न कार्यकरणदक्षमित्युक्तम्, अतः परिणामिन्येव वस्तुन्यर्थक्रियाकारित्वलक्षणं सत्त्वमवतिष्ठत इति । किञ्च, "सर्वथा क्षणिकं वस्तु, यदि हन्त त्वयेष्यते । कार्यकारणभावादि, तदा कः प्रतिपद्यते ॥१॥ को हि व्यवस्थितः कर्ता, संधत्ते क्रमवद्गतिम् । अस्य दृष्टाविदं दृष्टं, नास्यादृष्टौ तु लक्ष्यते ॥२॥" तथा असत्त्वमप्यात्मनः सर्वथात्वेन असङ्गतम्, कथञ्चित्तु सङ्गतमेव, आह च, "पररूपेण चासत्त्व-मिष्यते न तु सर्वथा । सर्वथा तदभावे हि, परलोको न सिध्यति ॥१॥" इति । यच्चोक्तं “यथा कुमारी" इत्यादि, तत् सकलवस्तुविषयाभिष्वङ्गदोषोन्मूलनार्थ, न तु सर्वथा आत्माभावप्रतिपादनार्थमिति बोद्धव्यम् । यच्चोक्तं, "सर्वे धर्मा निरात्मान एतत्साधनहानितः" इत्यादि, तदयुक्तम्, आत्मसाधनानां शास्त्रान्तरेषु प्रतिपादितत्वादिति । यच्चोच्यते "दृष्ट्युच्छेदस्तु मा भूयात्" इति, तदयुक्ततरम्, असतो ह्यात्मनः सर्वोपदर्शनं परप्रतारणस्वरूपमेव, न चैतत्सतां सङ्गतमिति । अतति सततं गच्छतीति “आत्मा'' प्राणी, 'इति' एवम्प्रकारात्, “निश्चयात्' निर्णयात्, 'भूयः' पुनरपि, 'भवनैर्गुण्यदर्शनात्' संसारासारतोपलम्भात्, “सदापाय: कायःप्रणयिषु सुखं स्थैर्यविमुखं, महारोगा भोगाः कुवलयशः सर्पसशः ॥ गृहावेशः क्लेशः प्रकृतिचपला श्रीरपि खला यमः स्वैरी वैरी परमिह हितं कर्तुमुचितम् ॥१॥" इत्यादिभावनयेत्यर्थः ॥४॥ 'तत्त्यागाय' संसारविमोक्षार्थम्, 'उपशातस्य' कषायेन्द्रियनिग्रहवतः, 'सवृत्तस्यापि' स्वसिद्धान्तानुसारेण शोभनानुष्ठानवतोऽपि, आस्तामन्यस्य, 'भावतः' सद्भावेन, 'यत्' इत्यस्येह सम्बन्धात्, 'वैराग्यम्' अभिष्वङ्गाभावः, किम्भूतं ? 'तद्गतं' भवविषयम्, 'तत्' इति वैराग्यम्, 'मोहगर्भम्' अज्ञानसारम्, 'उदाहृतं' वैराग्यस्वरूपवेदिभिरभिहितम्, मोहगर्भता
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy