________________
अथ आचारोपनिषद्
२. मिथ्याकारः यत्किञ्चिद्वितथं चेत् स्या-दाचरितं मुनेः क्वचित् । मिथ्यैतदिति विज्ञाय, मिथ्याकारः प्रयुज्यते ।। १ ।।
अवश्यं अनिक-व्यं नेतुत् क्त्व प्राप्तं नो वरम् ॥
अवश्यं प्रतिक्रम्यं चेत्, कृत्वा पापं ततो वम् । पापस्याकरणं चैव, ह्युत्सर्गेऽयं प्रतिक्रमः ।। २ ।।
पुनर्यो नाचरेत् पापं, प्रतिक्रान्तस्त्रिधाऽपि यः । मिथ्याकारः श्रुते प्रोक्त-स्तस्यैव पारमार्थिकः ।। ३ ।।
मिथ्याकारं प्रयुज्यापि, पापं कुर्यात्तदेव यः । प्रत्यक्षः स मृषावादी, मायानिकृतितत्परः ॥ ४ ॥
'मि' मृदुमार्दवत्वे स्यात्, 'छा' दोषस्थगने स्मृतम् । 'मि' मर्यादास्थितो 'दु' त्ति, जुगुप्सामि निजं तथा ।।५।।