SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रामण्योपनिषद् विषयेभ्यः स्वरादिभ्यः, श्रोत्रादीन्द्रियसंहृतिः । परिहारश्च रागादेः, संयम एष उच्यते ॥३॥ २८ क्रोधस्य कृन्तनं मान-मर्दनं लोभलुम्पनम् । मायाकायाग्निसंस्कारः, संयम एष उच्यते ॥४॥ मनोदण्डप्रमाथो यो, यद्वाचोदण्डदण्डनम् । देहदण्डौर्ध्वदेहिकं, संयम एष उच्यते ॥५॥ इत्थं सप्तदशभेदः, संयमः सोऽयमुच्यते । यत्र ज्ञाते न किं ज्ञातं ? दृष्टे दृष्टं श्रुते श्रुतम् ॥६॥ वाग्मिवाग्भिः कृतं कूट- तन्त्रवितर्कणैः कृतम् । संयमः सेव्यतामेक, एतावज्जिनशासनम् ॥७॥ विद्यतेऽविषयो विद्या - मन्त्रतन्त्रजुषां भुवि । संयमशालिनां विश्वे - विषयस्तु न विद्यते ॥८ ॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy