SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रोपनिषद् गुणादिविषयश्च भवति । अप्रशस्तस्तु रागः पापलेश्यासचिवः । भवति हि शुद्धसाधर्मिकबुद्ध्या परिवारगोचरोऽपि रागः प्रशस्तः । श्रमणादिगोचरोऽपि रागः - अहोऽस्य मन्त्रितवासचूर्णानुभावः, येन मम धनलाभोऽजनि इत्याद्यध्यवसायप्रसूतोऽप्रशस्तः । भवानुगुणो रांगोऽप्रशस्तः, इतरस्त्वितर इति तात्पर्यम् । प्रशस्तरागेण स्याद् धर्मानुष्ठाने दृढतरयत्नः, ततोऽपि पीनपुण्योपचयः, ततोऽपि वरतरतत्साधनसामग्रीयोगः, शालिभद्रवत् । रज्यतेऽनेनेति रागः, अरुच्यर्थको द्वेषः । तौ चेष्टानिष्टगोचरावपगतौ यस्य स वीतरागो वीतद्वेषश्च । एष एव वीतमोहोऽपि, अपगताज्ञानत्वात् । मोहोऽज्ञानं मिथ्यावगमो विपर्यासो मूढता मिथ्यात्वमसद्ग्रह इति पर्यायाः । मोहो हि । रागद्वेषसचिवो लूण्टयत्यात्मधनम् । कुरुते स आत्मानं मुक्तिपराङ्मुखम् । दंशत्यात्मानमप्रतिभात एव । कारयति सर्पेऽपि रज्जुंबुद्धिम् । मानयति विषयसुखादावुपादेयताम् । उत्पादयति देह आत्मप्रतिभासम् । मोहाभावे तु विज्ञाततया सुकरं स्याद्रागहानम् । मोहो हि कुक्कुरे दर्शयत्यजम् । ततश्च न तद्देशतो बिभेत्यात्मा । पश्यत्यहितमपि हिततया । मन्यते दुःखमपि सुखत्वेन । वेत्ति नगरनिर्धमनमपि सुखसागरत्वेन । स्वकृतामात्मगुणहानिमपि लाभत्वेन मानयति मोहः । अत एवोच्यते ४० — अज्ञानं खलु कष्टं, रागादिभ्योऽपि सर्वपापेभ्यः । अर्थं हितमहितं वा न वेत्ति येनाऽऽवृतो लोकः । इति
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy