SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रोपनिषद् अज्ञानात्मकेन मोहेन न विचारयत्यात्मात्मानं दोषकलुषितम्, अपि तु गुणवन्तम् । प्रमत्तमप्यात्मानं मन्यते सावधानम्, तदेष मोहोऽहड्कारविगमेन निरोद्धं शक्यः, अतो हि गुणदोषविवेकोदयः । ततश्च नियोगतो मोहत्याग इति । द्वितीयं भगवद्विशेषणं सर्वज्ञत्वम् । एतच्च ज्ञानातिशयज्ञापकम् । सर्वज्ञो नामानन्तज्ञानसम्पन्नः केवलज्ञानी । स च भूतभाविवर्त्तमानाननन्तद्रव्यपर्यायान् करावस्थिताऽऽमलकवत्पश्यति जानाति च । न ह्यस्य किमप्यज्ञातं नाम, प्रतिबन्धकविरहात्, उक्तञ्च - ज्ञो ज्ञेये कथमज्ञस्स्यादसति प्रतिबन्धके ? दाह्येऽग्निर्दाहको न स्या-दसति प्रतिबन्धके ? ।। देवेन्द्रपूजितोऽसाविति तृतीयं वैशिष्ट्यम् । एतेन सूचितः पूजातिशयः । असङ्ख्यसुरसन्दोहस्वामिनोऽपीन्द्रा पूजयन्त्येनम् । द्विप्रकारा हि पूजा । तत्र भयादिप्रभवाऽधमपूजा, गुणबहुमानप्रसूता चोत्तमपूजा । अपरया पूज्यते देवेन्द्रैर्देवाधिदेवः | विभावयन्ति तेऽनन्तं जिनोपकारम् । स्पृह्यन्ति तद्गुणगणविभूतिम् । अभिलषन्ति तत्सदृशचारित्रम् । किन्तु नाज्ञाप्रतिपत्त्यात्मकानुत्तमा पूजा तैः कर्तुं शक्या, सर्वविरतिसामर्थ्यविकलत्वात्तेषाम् । ननु सा पूजा तु गणधरैः क्रियत एव, अतो गणधरपूजितेभ्य इति वाच्यं स्यादिति चेत् ? न, वैशिष्ट्यज्ञापनार्थत्वाच्छास्त्रारम्भस्य । दिव्यसमृद्धिसौख्यसागरमध्यनिमग्नानामपि
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy