________________
पञ्चसूत्रोपनिषद्
३९ (२२) सर्वथाऽपि दारुणो रागः, तदधीना हि क्रोधादिकषायाः, तत्पुष्टिकृतश्च । (२३) रागो हि रक्षति मिथ्यामतिम् । तया च भवति तत्पोषः । ततश्च रागगोचरवस्तुप्राप्त्याद्यर्थं निषेव्यन्ते प्रकामं क्रोधाद्याः । ध्रियते रागगोचरे कामस्नेहदृष्टिरागान्यतमः | उदेति तन्निमित्तं हास्यं रतिररतिश्च । (२४) कर्मराजो हि मोहनीयं कर्म, तन्मूलश्च रागः | न ह्यनन्तानुबन्धिरागविगममन्तरेण सम्भवी मिथ्यात्वापगमः | अपि च (२५) भवति सपक्षपातो रागः, अतस्तीव्रतर एषोऽन्तर्भवत्यनन्तानुबन्धिकषाये । ततश्च नापगच्छति भवप्रतिबन्धः, अतत्त्वग्रहश्च । (२६) प्रयोजकतरो रागो हिंसादौ, धन परिवारादिरागेण तत्प्रवृत्तिदर्शनात् । (२७)रागो हि भ्रंशयति परोपकारतः । राग एवापादयति रङ्कगोचरं द्वेषम् ; यथा - कथं पीनोऽप्येष भिक्षते, नेच्छति परिभ्रमम् - इत्यादि ।
(२८) किञ्चानीत्या धनोपार्जनमपि रागकार्यम् । रागमूलानि हि जगत्पापानि तद्धानिमात्रत उपशम्यानि 1 (२९) सविवेकोऽपि प्रेर्यते रागेणाविवेकसाध्ये कार्ये । (३०) बलवानपि रागस्य पुरस्ताद् भवति दुर्बलतमः । __ अतः परिहार्याऽपरिहार्यव्यवहारेऽपि रागान्धता | नाश्रितभरणेऽपि सेव्यं रागान्धत्वम् । रागहानौ भवत्यनावश्यकवस्तुप्राप्तियत्नहानिः, ततश्च हिंसादि, पापहानम् ।
द्विविधो हि रागः प्रशस्तोऽप्रशस्तश्च । तयोः प्रशस्तरागो न बन्धनिबन्धनम्, अपि तु मुक्तिप्रयोजकः, अप्रशस्तरागापनायकत्वात् । एष देवगुरुधर्मगोचरः सच्छास्त्रतीर्थात्म